अण्डजः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अण्डजः, पुं, (अण्डे जायते अण्ड + जन् + कर्त्तरि, ड उपपदसमासः) पक्षी । सर्पः । मत्स्यः । कृकलासः । इति विश्वमेदिन्यौ ॥ अण्डजातमात्रे त्रि । इत्यमरः ॥ (“अण्डजाः पक्षिणः सर्पा नक्रा मत्स्याश्च कच्छपाः । यानि चैवंप्रकाराणि स्थलजान्यौदकानि च” ॥ इति मनुः ।)
