अतिचारः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अतिचारः, पुं, (अतिक्रम्य चरणं गमनम् अति + चर + भावे घञ् ।) शीघ्रगमनं । अतिक्रम्य गमनं । कुजादिपञ्चग्रहाणां राशिभोगकालासमाप्तौ राश्यन्तरगमनं । तत्र पूर्ब्बराशिगमने वक्राति- चारः । परराशिगमने अतिचारः । एतौ गुरो- श्चेदकालो भवति । गुरुस्तु यदि पुनः पूर्ब्बराशिं नायाति तदा महातिचारः । तेन लुप्तसम्बत्सरो भवति । ग्रहाणां स्वभोज्यमानराशावपि वक्रा¯ति- चारौ भवतः ॥ तत्र नाकालः । इति स्मृति- ज्योतिषे ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अतिचारः¦ पु॰ अतिक्रम्य स्वस्वभोगकालमुल्लङ्घ्य चारः राश्य-न्तरगमनम्। ज्योतिषोक्ते भौमादिपञ्चकस्य स्वस्वाक्रान्तरा-शिषु भोगकालमुल्लङ्घ्य राश्यन्तरगमने। अतिचारश्च ग्रह-गतिशब्दे वक्ष्यमाणेन
“रविर्मासं निशानाथः सपाददिवस-द्वय” मित्यादिनोक्तभोगकालभेदोल्लङ्घनेन ग्रहाणां अतिशीघ्र-गतया अल्पकालेनैव आक्रान्तराशिमुपभुज्य राश्यन्तरगम-नम्। तच्च विस्तरेण ग्रहगतिशब्दे वक्ष्यते।
“यदाति-चारं सुरराजमन्त्रीति”
“अतिचारं गते जीवे” इति
“गोऽजालिकुम्भेतरगोऽतिचारम” इति च ज्योतिषम्। गुरोरतिचारे कालाशुद्धिश्च अकालशब्दे दर्शिता। अति-क्रम्य गमने च। [Page0100-a+ 38]
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अतिचारः [aticārḥ], 1 Transgression.
Excelling.
Overtaking &c.
Accelerated motion of planets (कुजादि- पञ्चग्रहाणां स्वस्वाक्रान्तराशिषु भोगकालमुल्लङ्घ्य राश्यन्तरगमनम्); passage from one zodiacal sign to another.
Violation of justice Kau. A.4.