अतिदेशः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अतिदेशः, पुं, (अति + दिश् + भावे घञ्) अन्य- धर्म्मस्यान्यत्र आरोपणं । यथा, -- “इण्वदिकः” इत्यादिः । इति दुर्गादासः ॥ कारिका यथा, -- “प्रकृतात् कर्म्मणो यस्मात् तत्समानेषु कर्म्मसु । धर्म्मोऽतिदिश्यते येन अतिदेशः स उच्यते” ॥ इति मलमासतत्त्वम् ॥ स तु पञ्चविधः । शास्त्रा- तिदेशः । १ यथा, -- “नित्येन तुल्यं शेषं स्यात् इत्यत्र तुल्यशब्देन अतिदेशः” । १ । कार्य्याति- देशः २ यथा, -- “अप्रयाजास्ताः इत्यत्र कार्य्येण निषेधेन दर्शपौर्ण्णमासधर्म्मातिदेशः” । २ । निमि- त्तातिदेशः ३ यथा, -- “विकूतौ मौद्गचरुयागे ब्रीहिंकार्य्यकारिणि मुद्गे ब्रीहिकार्य्यनिमित्तत्वात् धर्म्माः प्रोक्षणादयः कल्प्यन्ते” । ३ । व्यपदेशा- तिदेशः ४ यथा, -- “मासमग्निहोत्रं जुहोति इत्यत्र माससाध्यायनाख्ययागे अग्निहोत्रपदव्यप- देशात् अग्निहोत्रधर्म्मातिदेशः” । ४ । “रूपा- तिदेशः” ५ यथा, -- “यजमानाद्भिन्नो यूपः इत्य- त्र यूपे यजमानादन्यत्वरूपावगमात् यजमान- धर्म्मस्य तदीयपरिमाणस्यातिदेशः” । इति श्राद्ध- विवेकटीकायां श्रीकृष्णः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अतिदेशः¦ पु॰ अतिक्रम्य स्वविषयमुल्लङ्घ्य अन्यत्र विषये देशउपदेशः अतिदिश्यते वा करणे कर्म्मणि वा घञ्।
“अन्यत्रैव प्रणीतायाः कृत्स्नाया धर्म्मसंहतेः। अन्यत्रकार्य्यतः--प्राप्तिरतिदेशः स उच्यते। प्राकृतात् कर्म्मणोयस्मात्तत्--समानेषु कर्म्मसु। धर्म्मप्रवेशो येन स्यादतिदेशः सउच्यते” इत्यधिकरणमालाधृताभियुक्तवाक्योक्ते अन्यत्र-प्राप्तेऽन्यधर्म्मे तत्प्रापके शास्त्रभेदेच। यथा
“प्रकृतिवत्विकृतिः कर्त्तव्येत्यादिः” स चातिदेशः पञ्चविधः शास्त्राति-देशः, कार्य्यातिदेशः, निमित्तातिदेशः, व्यपदेशातिदेशः,रूपातिदेशश्च। एतस्य उदाहरणादिकमाकरे ज्ञेयम्। अतिदेशश्च प्रायेण इववदादिसादृश्यवाचकशब्देन यथाप्रकृतिवत् विकृतिरित्यादि अयञ्च वैदिककर्म्मणीव व्याक-रणादिशास्त्रे, लौकिके व्यवहारे च विद्यते यथा
“इण्व-दिक, इत्यत्र व्याकरणे रूपातिदेशः”
“कर्म्मणा कर्मवत्तुल्य-क्रिय” इत्यादौ, पुंवदित्यादौ च कार्य्यातिदेशः, णिद्वदि-त्यादौ निमित्तातिदेशः, व्यपदेशिवद्भावैत्यादौ संज्ञाति-[Page0101-a+ 38] देश इत्येवं प्रकारा अतिदेशाःसन्ति॥ लोके च गोसदृशो-गवयैत्यादौ रूपातिदेशैत्यादि। अतएवोपमानरूपप्रमाणेअस्यातिदेशवाक्यस्य करणत्वं सहकारिभावोवेत्यादि तत्त-च्छास्त्रकारैरङ्गीकृतम् अतिदेशेन निर्वृत्तम् ठक्। आति-देशिकं त्रि॰।
“आतिदेशिकविधिरनित्य” इति परिभाषा।
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अतिदेशः [atidēśḥ], 1 Transfer, making over, assigning.
(Gram.) Extended application, application by analogy, transference of one attribute to another, attraction of one case or rule to another; अतिदेशो नाम इतरधर्मस्य इतरस्मिनू प्रयोगाय आदेशः (मीमांसा); or अन्यत्रैव प्रणीतायाः कृत्स्नाया धर्मसंहतेः । अन्यत्र कार्यतः प्राप्तिरतिदेशः स उच्यते ॥ प्राकृतात् कर्माणो यस्मात्तत्समानेषु कर्मसु । धर्मप्रवेशो येन स्यादतिदेशः स उच्यते ॥ This अतिदेश is of 5 kinds: शास्त्र˚, कार्य˚, निमित्त˚, व्यपदेश˚ & रूप˚. Thus in Grammar प्रकृति- वतू विकृतिः, कर्मणा कर्मवत्तुल्यक्रियः or पुंवत्, णिद्वत्, व्यपदेशिवद्भावः & इण्वदिकः are instances. गोसदृशो गवयः is an instance of रूपातिदेश or analogy; वाक्यार्थस्यातिदेशस्य स्मृतिर्व्यापार उच्यते Bhāṣā. P.8. अतिदेश is generally expressed by words showing likeness or resemblance, such as इव, वत्, सदृश &c. cf. also अतिदेशो नाम ये परत्र विहिता धर्मास्त- मतीत्यांन्यत्र तेषां देशः । ŚB. on MS.7.1.12. अतिदेश forms the subject matter �2of the 7th and the 8th अध्यायs of जैमिनि's मीमांसासूत्र. For its various divisions and subdivisions read: स च नाम्ना वचनेन वा । तत्र नाम त्रिविधमातिदेशिकं कर्मनाम, संस्कारनाम, यौगिकमिति । वचनं पुनर्द्विविधं प्रत्यक्षश्रुतमानु- मानिकं च । (ŚB. ibid.).
