अतिवाहक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अतिवाहक¦ पु॰ अतीत्यैतं देहं वाहयति देहान्तरं प्रापयतिअति + वह--ण्वुल्। ईश्वरनियोजिते अर्च्चिराद्यभिमानि-[Page0104-b+ 38] देवभेदे। तथाहि
“अर्चिषोहः, अह्न आपूर्य्यमाणपक्षम्,आपूर्य्यमाणपक्षात् यान् षण्मासान् उदङ्ङेति तान्मासान्, मासेभ्यः संवत्सरं, संवत्सरादादित्यमादित्याच्च-न्द्रमम् चन्द्रमसो विद्युतं, तत्पुरुषोऽमानवः सएनंब्रह्म गमयतीति” श्रुतौ वाक्यशेषे अमानवपुरुषस्यब्रह्मलोकप्रापकत्वश्रुतेः तत्पूर्व्वाणामपि अर्चिरादीनांचेतनत्वमिति
“आतिवाहिकास्तल्लिङ्गादिति” सूत्रे निर्णी-तम्।
“अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायण-मिति” गीताव्याख्यायाञ्च अर्च्चिरादयस्तदभिमानिन्योदेवता” इति श्रीधरस्वामिभिरप्युक्तम् युक्तञ्च अवृत्रिकेन्द्रिया-दिकसूक्ष्मशरीरस्य स्थानान्तरनयनं चेतनकर्तृकं विनाऽनु-पन्नमित्यतस्तदानों तस्य स्थानान्तरगमनसिद्धये कल्पितचेत-नानामेव प्रेरकत्वमिति। अन्यच्च,
“पञ्चप्राणमनोबुद्धिदशे-न्द्रियसमन्वितम् अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधन” मित्युक्तस्य भोगसाधनस्य निश्चेष्टस्य सूक्ष्मशरीरस्य तदवच्छिन्न-जीवस्य च स्थानान्तरनयनमाश्रयभूतेन विना न सम्भवतीतितदाश्रयभूतं भूतपञ्चकं च कल्प्यते यथोक्तं मनुना
“अ-ण्व्योमात्राविनाशिन्यो दशार्द्धानान्तु याः स्मृताः। ताभिःसार्द्धम्” इत्युक्तम् शारीरकसुत्रे च
“तदन्तरप्रतिपत्तौ रंहतिसम्परिष्वक्त इति” भूतमात्रोपष्टब्धस्यैव संसरणमुक्तंसांख्ये व
“चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विनायथा च्छाया। तद्वद्विना विशेषैर्न तिष्ठति निराश्रयंलिङ्गमिति, संसरति निरुपभोगं भावैरतिवासितं लिङ्गमिति” चोक्तम्। अतिवाहप्रकारस्तु उत्क्रमणशब्दे विशेषेणवक्ष्यते। अति + वह--णिच् ण्वुल् अतिवाहकारके,अतियापके च त्रि॰।
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अतिवाहकः [ativāhakḥ], [अतीत्य एतं देहं वाहयति देहान्तरं प्रापयति; वह्-ण्वुल्] The deity or spirit appointed by God to help in the conveying of the जीव or सूक्ष्मशरीर in the above manner.
