सामग्री पर जाएँ

अतिव्याप्तिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अतिव्याप्तिः, स्त्री, (अतिशयेन व्याप्तिर्व्यापनं ।) अतिशय- व्यापनं । अलक्ष्ये लक्षणस्य गमनं । यथा साध्या- भाववदवृत्तित्वमिति व्याप्तिलक्षणे धूमवान् वह्नि- रित्यत्र धूमाभावाधिकरणह्रदवृत्तित्वाभावमादाय अतिव्याप्तिः । इति तार्किकाः ॥ स्वाव्यवहित- प्राक्क्षणावच्छेदेन रविभुज्यमानराशीयरवि- संयोगविशिष्टस्वान्तिमक्षणकत्वं मलमासत्वं भानुलङ्घिते अतिव्याप्तिवारणाय औत्पातिकभिन्न- त्वेन विशेषणीयं । इति मलमासतत्त्वटीका ॥ मुख्यफलजनकव्यापारजनकत्वे सति मुख्यफला- जनकत्वं अङ्गत्वं घटादावतिव्याप्तिवारणाय सत्यन्तं इति तिथ्यादितत्त्वटीका च ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अतिव्याप्तिः [ativyāptiḥ], f.

An unwarrantable stretch of a rule or principle.

Including what is not intended to be included in a proposition; (in Nyāya) including or covering too much, unwarranted extension of a definition to things not intended to be defined by it, so that it includes such things as ought not to fall under it; one of the three faults to which a definition is open; अलक्ष्ये लक्षणगमनम् अतिव्याप्तिः; यथा मनुष्यो ब्राह्मणः इति लक्षणस्य शूद्रे$तिव्याप्तिः, तस्यापि मनुष्यत्वात्.

"https://sa.wiktionary.org/w/index.php?title=अतिव्याप्तिः&oldid=196449" इत्यस्माद् प्रतिप्राप्तम्