सामग्री पर जाएँ

अतिसारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अतिसारः, पुं, (अतिशयेन मलं द्रवीकृत्य सरति निःसारयति अति + सृ + व्याधिमत्स्यबलेष्विति वक्तव्यमिति वार्त्तिकसूत्रेण कर्त्तरि घञ् वृद्धिः दीर्घश्च ।) बहुद्रवमलनिःसरणरोगः । तत्पर्य्यायः । अन्नगन्धिः २ उदरामयः ३ । इति त्रिकाण्डशेषः ॥ अतीसारः ४ । इति वैद्यकं ॥ * ॥ तस्य निदानं । “गुर्व्वतिस्निग्धरूक्षोष्णद्रवस्थूलातिशीतलैः । विरुद्धाध्यशनाजीर्णैर्विषमैश्चापि भोजनैः ॥ स्नेहाद्यैरतियुक्तैश्च मिथ्यायुक्तैर्विषैर्भयैः । शोकाद्दुष्टाम्बुमद्यातिपानैः सात्म्यर्त्तुपर्य्ययैः ॥ जलाभिरमणैर्व्वेगविघातैः क्रिमिदोषतः । नृणां भवत्यतीसारो लक्षणं तस्य वक्ष्यते” ॥ संप्राप्तिर्यथा, -- “संशम्यापां धातुरग्निं प्रवृद्धः शकृन्मिश्रो वायुनाधः प्रणुन्नः । सरत्यतीवातिसारं तमाहु- र्व्याधिं घोरं षड्विधं तं वदन्ति ॥ एकैकशः सर्व्वशश्चापि दोषैः शोकेनान्यः षष्ठ आमेन चोक्तः” ॥ * ॥ पूर्ब्बरूपं यथा, -- “हृन्नाभिपायूदरकुक्षितोद- गात्रावसादानिलसन्निरोधाः । विट्सङ्ग आध्मानमथाविपाको भविष्यतस्तस्य पुरःसराणि ॥” इति माधवकरः ॥ अथ सामान्यातिसारस्य चिकित्सामाह । “आमपक्वक्रमं हित्वा नातिसारक्रिया यतः । अतोऽतिसारे सर्व्वस्मिन्नामं पक्वञ्च लक्षयेत् ॥ क्रमशश्चिकित्सा । तत्रामपक्वयोर्लक्षणं । “संसृष्टमानैर्दोषैस्तु न्यस्तमप्सु निमज्जति । पुरीषं भृशदुर्गन्धि पिच्छिलं चामसंज्ञितं ॥ एतान्येव तु लिङ्गानि विपरीतानि यस्य वै । लाघवञ्च विशेषेण तत्तु पक्वं विनिर्द्दिशेत् ॥ न च संग्राहणं दद्यात् पूर्ब्बमामातिसारिणे । अकाले संगृहीतो हि विकारान्कुरुते बहूग् ॥ दण्डकालसकाध्मानग्रहण्यर्शोभगन्दरान् ॥ शोथं पाण्ड्वामयं प्लीहगुल्ममेहोदरज्वरान् ॥ डिम्भस्थः स्थविरस्थश्च वातपित्तात्मकश्च यः । क्षीणधातुबलस्यापि बहुदोषोऽतिविश्रुतः ॥ आमोऽपि स्तम्भनोयः स्यात् पाचनान्मरणं भवेत् । लङ्घनमेकं मुक्त्वा न चान्यदस्तीह भेषजंबलिनः । समुदीर्णदोषनिचयं तत् पाचयते तथा शमयेत् ॥ तत्र रूक्षप्रभवा वातजा । स्नेहप्रभवा कफजा । तु शब्दात्तीक्ष्णोष्णप्रभवा पित्तजा रक्तजा च । तासा- मतीसारवदादिशेच्च लिङ्गं क्रमं चामविपक्वताञ्च । क्रमं चिकित्सां ॥ * ॥ तस्याश्चिकित्सामाह । “विल्वपेशी गुडं लोध्रं तैलं मरिचसंयुतं । लीढ्वा प्रवाहिकाक्रान्तः सत्वरं सुखमाप्नुयात्” ॥ वित्त्वादिरवलेहः ॥ * ॥ “धातकीवदरीपत्रकपित्थरसमाक्षिकं । सलोध्रमेकतो दध्ना पिबेन्निर्व्वाहिकार्द्दितः” ॥ एकतः प्रत्येकं दध्ना पिबेदित्यर्थः । निर्व्वाहिका प्रवाहिका । धातक्यादिः ॥ * ॥ अथ असाध्या- तिसारिणोलक्षणमाह । “पक्वजाम्बवसंकाशं यकृत्खण्डनिभं तनुं । घृततैलवसामज्जवेसवारपयोदधि । मांसधावनतोयाभं कृष्णं नीलारुणप्रभं ॥ कुणपं सकृदालोक्य नातिसारमुपक्रमेत् । तृष्णादाहारुचिश्वासहिक्वापार्श्वास्थिशूलिनं” ॥ संमूर्च्छारतिसंमोहयुक्तं पक्ववलीगुदं । प्रलापयुक्तञ्च भिषक् वर्ज्जयेदतिसारिणं ॥ संमूर्च्छा सकलेन्द्रियमनसां स्वस्वविषयग्रहणाशक्तिहेतुर- वस्थाविशेषः । संमोहः विकृतमतित्वं । “असंवृतगुदं क्षीणं शूलाध्मानैरुपद्रुतं । गुदे पक्वे गतोष्माणमतीसारिणमुत्सृजेत् ॥ असंवृतगुदं गुदसंवरणाक्षमं । गुदे पक्वे गतोष्माणं गुदपाकारम्भके पित्ते विद्यमानेऽपि शीतगात्रं नष्टाग्निं वा । “श्वासशूलपिपासार्त्तं क्षीणं ज्वरनिपीडितं । विशेषेण नरं वृद्धमतीसारो विनाशयेत् ॥ शोथं शूलं ज्वरं तृष्णां श्वासं कासमरोचकं । छर्द्दिमुर्च्छाञ्च हिक्वाञ्च दृष्ट्वातिसारिणं त्यजेत् ॥ हस्तपादाङ्गुलीसन्धिप्रपाको मूत्रनिग्रहः । पुरीषस्योष्णतातीव मरणायातिसारिणां ॥ अतीसारी राजरोगी ग्रहणीरोगवानपि । मांसाग्निबलहीनो यो दुर्लभं तस्य जीवनं ॥ बाले वृद्धे त्वसाध्योऽयं लिङ्गैरेतैरुपद्रुतः । अपि यूनामसाध्यः स्यादतिदुष्टेषु धातुषु” ॥ एतैर्लिङ्गैः पर्व्वोक्तैः पक्वजाम्बवसंकाशत्वादिभिः ॥ * ॥ अथातिसारयुक्तस्य लक्षणं । “यस्योच्चारं विना मूत्रं सम्यग्वायश्च गच्छति । दीप्ताग्नेर्लघु कोष्ठस्य स्थितस्तस्योदरामयः” ॥ उच्चारं पुरीषं विना स्थितः निवृत्त उदरामयो- ऽत्रातिसारः ॥ * ॥ अथातीसारिणो वर्ज्जनीया- न्याह । “स्नानावगाहनाभ्यङ्गगुरुस्निग्धादिभोजनं । व्यायाममग्निसन्तापमतीसारी विवर्ज्जयेत्” ॥ स्नानमुद्धृतजलेन । अवगाहनं नद्यादौ । इत्यती- साराधिकारः । इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=अतिसारः&oldid=110787" इत्यस्माद् प्रतिप्राप्तम्