अत्यन्ताभाव
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अत्यन्ताभाव¦ पु॰ अत्यन्तः अन्तमतिक्रान्तः नित्यः अभावःकर्म्म॰। नास्तीति वाक्याभिलप्यमाने नाशप्रागभावभिन्नेसंसर्गाभावे। यथा न्यायमते भूतले घटाभावः प्रतीयतेस च भूतले घटोनास्ति इति वाक्येन अभिलप्यतेसोऽयमभावः, न नाशः, नापि प्रागभावः तयोः समवायिदेशवृत्तित्वनियमात् भूतलादेश्च तदभावात्। नाशप्राग-भावयोस्तु न अत्यन्तता प्रतियोगिकाले तयोरसत्त्वात्। नापि तयोर्नित्यता प्रागभायस्य प्रयोगिनाश्यत्वात् ध्वंसस्यच प्रतियोगिजन्यत्वात्। भेदस्य नित्यत्वेऽपि संसर्गाभाव-त्वाभावात् न तथात्वम्। अत्यन्ताभावस्य नित्यत्वेऽपिप्रतियोगिसत्त्वकाले न तत्प्रतीतिः अभावप्रत्यक्षे योग्यानु-पलब्धेर्हेतुतया योग्यस्य घटादिरूपप्रतियोगिन उपलब्धौतदनुपलब्धेरभावात्। नापि एकस्मिन् मावाभावयोः सत्त्वंविरुद्धम् एकस्मिन्नपि वृक्षे कपिसंयोगतद्भावयोरवच्छेद-भेदेन सत्त्वदर्शनात् तथा च एकस्मिन्नपि भूतलेऽवच्छेद-भेदेन तयोः सत्त्वं न विरुध्यते। द्रव्यादौ गुणतदभावयोःकालरूपाववच्छदभेदेन स्थितिरपि न विरुद्धा। तथा चप्रतियोगिसत्त्वकाले द्रव्ये गुणात्यन्ताभावबुद्धिः प्रतिबन्धक-सद्भावेन परं नोदेति इत्येव विरोधमात्रम्। अधिकमभाव-शब्दे वक्ष्यते।
“प्रागभावस्तथाध्वंसोऽप्यत्यान्ताभाव एवचेति” भाषा॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अत्यन्ताभाव¦ m. (-वः) (In logic) absolute negation or non-existence. E. अत्यन्त much, अभाव not being.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अत्यन्ताभाव/ अत्यन्ता m. absolute non-existence.