अथववेद
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अथववेद¦ पु॰ कर्म॰। वेदभेदे तद्विवृतिः
“अथर्वस्य नव शाखाः,पैप्पलादा शौनकी दामोदा औप्ता ब्रह्मदा पशशौनकीदेवदर्शीचारणविद्या चेति तेषामध्ययनं द्वादशैव सहस्राणितस्य पञ्च कल्पा भवन्ति कल्पे कल्पे पञ्च शतानि भवन्तिनक्षत्रकल्पो, विधानकल्पः संहिताबिधिकल्पः, अभिचार-कल्पः, शान्तिकल्पश्चेति” चरणव्यूहोक्ता। तस्याध्ययन-प्रचारभेदादि विष्णुपुराणेऽभिहितं यथा
“अथर्वाणामथो वक्ष्ये संहितानां समुच्चयम्। अथर्ववेदं समुनिः सुमन्तुरमितद्युतिः॥ शिष्यमध्यापयामास कबन्धंसोऽपि तद् द्विधा। कृत्वा तु देवदर्शाय तथा पथ्यायदत्तवान्॥ देवदर्शस्य शिष्यास्तु मौद्गो ब्रह्मबलिस्तथा। शौक्तायनिः पिप्पलादस्तथान्यो मुनिसत्तम!॥ पथ्यस्यापित्रयः शिष्याः कृता यैर्द्विज! संहिताः। जाजलिःकुमुदादिश्च तृतीयः शौनको द्विजः॥ शौनकस्तु द्विधाकृत्वा ददावेकान्तु बभ्रवे। द्वितीयां संहितां प्रादात्सैन्धवायनसंज्ञिने॥ सैन्धवमुञ्जकेशाभ्यां भिन्ना वेदाद्विधा पुनः। नक्षत्रकल्पो वेदानां संहितानां तथैव च॥ चतुर्थः स्यादाङ्गिरसः शान्तिकल्पश्च पञ्चमः। श्रेष्ठास्त्वथ-र्वणामेते संहितानां हि कल्पकाः इति”॥ एतस्य उपनिषदःएकत्रिंशत् तासां नामानि यथा प्रश्नः
१ मुण्डकं
२ माण्डूक्यम्
३ अथर्वशिरः
४ अथर्वशिखा
५ वृहज्जा-वालिः
६ नृसिंहतापनी
७ नारदपरिव्राजकः
८ सीता
९ शरभः
१० नारायणः
११ रामरहस्यम्
१२ रामतापनी
१३ शाण्डिल्यः
१४ परमहंसपरिव्राजकः
१५ अन्नपूर्णा
१६ सूर्य्यात्या
१७ पाशुपतम्
१८ परब्रह्म
१९ त्रिपुरा-तापनी
२० देवी
२१ भावना
२२ भस्म
२३ जावालिः
२४ गणपतिः
२५ महावाक्यम्
२६ गोपालतापनी
२७ कृष्णतापनी
२८ हयग्रीवः
२९ दत्तात्रेयः
३० गरुडः
३१ एताश्च प्रायशः ब्रह्मविद्यातदङ्गोपासनाप्रतिपादिकाःमुक्तिको॰।
