अदण्ड्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अदण्ड्य¦ त्रि॰ न दण्डमर्हति यत्। दण्डानर्हे
“अदण्ड्यान्दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन्निति” याज्ञ॰।
“अपिभ्राता सुतोऽर्घ्यो वा श्वशुरोमातुलोऽपि वा नादण्ड्योनाम राज्ञोऽस्ति धर्म्मात् प्रचलितः स्वकादिति” मनुः। स्मृत्यादौ कर्मविशेषे दण्डः तदभावश्च उक्तोऽनुसन्धेयःतत्र केचिददण्ड्याः संगृह्यन्ते।
“अनिर्द्दशाहां गां सूतांवृषान् देवपशूंस्तथा। सपालान् वा विपालान् न दण्ड्यान्मनुरव्रवीत्”। यानवाहकदण्डाभावे प्रयोजकमुक्तम् अतिवर्त्तनशब्दे, क्षेत्रे देयप्रावरणविशेषमुक्त्वा तदकरणे दण्डाभावोमनुनोक्तः यथा
“तत्रापरिवृतं धान्यं विहिंस्युः पशवोयदि न तत्र प्रणयेद्दण्डं नृपतिः पशुरक्षिणामिति”
“महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः पालोयेषाञ्चते मोच्या दैवराजपरिप्लुता” इति
“अदण्ड्या हस्तिनो-ऽश्वाश्च प्रजापाला हि ते स्मृताः। अदण्ड्याः काण-कुण्ठाश्च वृषभः कृतलक्षण इति” स्मृतिः।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अदण्ड्य¦ mfn. (-ण्ड्यः-ण्ड्या-ण्ड्यं) Unpunishable, unworthy of, or exempt from punishment. E. अ neg. दण्ड्या to be punished.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अदण्ड्य/ अ-दण्ड्य mfn. not deserving punishment PBr. Mn. etc.
अदण्ड्य/ अ-दण्ड्य mfn. exempt from it S3Br. Mn. viii , 335.