सामग्री पर जाएँ

अदत्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अदत्तम्, त्रि, (न दत्तम् उत्सृष्टं नञ्समासः नञत्र अप्राशस्त्ये यथा कारिकायां । “तत् सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञ्र्थाः षट् प्रकीर्त्रिताः” ॥ इति ।) अन्यायेन दत्तं । यथा । यत् पुनरन्या- येन दत्तं तददत्तं । षोडशप्रकारमपि प्रत्याहर्त्त- व्यमेव इत्यर्थादुक्तं भवति । नारदेन च । दत्तं सप्तविधं प्रोक्तमदत्तं षोडशात्मकमिति प्रतिपाद्य दत्तादत्तयोः स्वरूपं विवृतं । “अदत्तन्तु भयक्रोधशोकवेगरूजान्वितैः । तथोत्कोचपरीहासव्यत्यासच्छलयोगतः ॥ बालमूढास्वतन्त्रार्त्तमत्तोन्मत्तापवर्जितं । कर्त्ता ममेदं कर्म्मेति प्रतिलाभेच्छया च यत् ॥ अपात्रे पात्रमित्युक्ते कार्य्य वा धर्म्मसंहिते । यद्दत्तं स्यादविज्ञानाददत्तमिति तत् स्मृतमिति ॥ अयमर्थः । भयेन वन्दिग्राहादिभ्यो दत्तं । क्रोधेन पुत्त्रादिवैरनिर्यातनायान्यस्मै दत्तं । पुत्त्रवियोगा- दिनिमित्तशोकाविष्टेन दत्तं । उत्कोचेन कार्य्य- प्रतिबन्धनिरासार्थमधिकृतेभ्यो दत्तं । परिहासे- नोपहासेन दत्तं । एकः स्वद्रव्यमन्यस्भै ददात्यन्यो- ऽपि तस्मै ददातीति दानव्यत्यासः । छलयोगतः शतदानमभिसन्धाय सहस्रमिति परिभाष्य ददाति । बालेनाप्राप्तषोडशवर्षेण । मूढेन लोक- वेदानभिज्ञेन । अस्वतन्त्रेण पुत्त्रदासादिना । आर्त्तेन रोगाभिभूतेन मत्तेन मदनीयप्रमत्तेन । उन्मत्तेन वातिकाद्युन्मादग्रस्तेन । अपवर्जितं दत्तं । तथायं मदीयमिदं कर्म्म करिष्यतीति प्रतिलाभे- च्छया दत्तं । अचतुर्वेदाय चतुर्वेदोऽहमित्युक्तवते दत्तं । यज्ञं करिष्यामीति धनं लबध्वा द्यूतादौ विनियुञ्जानाय दत्तमित्येवं षोडशप्रकारमपि दत्त- मदत्तमित्युच्यते । प्रत्याहरणीयत्वात् । आर्त्त- दत्तस्यादत्तत्वं धर्म्मकार्य्य व्यतिरिक्तविषयं । “सुस्थेनार्त्तेन बा दत्तं श्रावितं धर्म्मकारणात् । अदत्त्वा तु मृते दाप्यस्तत्सुतो नात्र संशयः ॥ इति कात्यायनस्मरणात् । यः पुनः षोडश- प्रकारमप्यदत्तं गृह्णाति यश्चादेयं प्रयच्छति । तयोर्दण्डो नारदेनोक्तः । “गृह्णात्यदत्तं यो लोभात् यश्चादेयं प्रयच्छति । अदेयदायको दण्ड्यस्तथा दत्तप्रतीच्छकः” ॥ इति मिताक्षरा ॥ कन्यकानां त्वदत्तानां । इति कात्यायनः ॥ “नह्यदत्तां महीं पित्रा भरतः शास्तु मिच्छति” इति रामायणं ।)

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अदत्त¦ mfn. (-त्तः-त्ता-त्तं) Not given. f. (त्ता) An unmarried girl. E. अ not, दत्त given.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अदत्त [adatta], a.

Not given. अदत्तान्युपभुञ्जानः Ms.4.22.

Unjustly or improperly given.

Not given in marriage.

Not having given anything. -त्ता An unmarried girl. -त्तम् A gift which is null and void (having been given under particular circumstances which make it revocable). -Comp. -आदायिन् a. the receiver of such a gift; one who takes what has not been given away, such as a thief; अदत्तादायिनो हस्ताल्लि- प्सेत ब्राह्मणो धनं । याजनाध्यापनेनापि यथा स्तेनस्तथैव सः ॥ -पूर्वा not affianced or betrothed before; अदत्तपूर्वेत्याशङ्क्यते Māl.4.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अदत्त/ अ-दत्त mfn. not given

अदत्त/ अ-दत्त mfn. given unjustly

अदत्त/ अ-दत्त mfn. not given in marriage

अदत्त/ अ-दत्त mfn. one who has given nothing AV.

अदत्त/ अ-दत्त n. a donation which is null and void Comm. on Ya1jn5.

"https://sa.wiktionary.org/w/index.php?title=अदत्त&oldid=485103" इत्यस्माद् प्रतिप्राप्तम्