अद्भुतम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अद्भुतम्, क्ली, अपूर्ब्बं । तत्पर्य्यायः । विस्मयः २ आश्चर्य्यं ३ चित्रं ४ । तद्विशिष्टे वाच्यलिङ्गं । इत्यमरः ॥
अद्भुतम्, त्रि, (अततीति अत् + क्विप् आकस्मिकार्थ- मव्ययं तथा भाति-भा + डुतच् ।) आश्चर्य्यं । तत्पर्य्यायः । इङ्गं २ । इति जटाधरः ॥ * ॥ अथा- द्भुतं । अद्भुतसागरे आथर्व्वणाद्भुतवचनं । प्रकृति- विरुद्धमद्भुतमापदः प्राक् प्रबोधाय देवाः सृज- न्तीति । तेन आपज्ज्ञानाय भूम्यादीनां पूर्ब्बं स्वभावप्रच्यवोदेवकर्तृकोऽद्भुत इति ॥ एवञ्च बुधो- दयपर्ब्बग्रहणादीनां गणितागतत्वेन प्रकृतानामपि यदुत्पातत्वं तद्भाक्तं । तत्कारणञ्च गर्गसंहितावार्हस्पत्ययोः ॥ “अतिलोभादसत्याद्वा नास्तिक्याद्वाप्यधर्म्मतः । गीतवादित्रनिर्घोषो वनपर्ब्बतसानुषु । शस्यवृद्धिरसोत्पत्तिरपापाः शरदि स्मृताः ॥ * ॥ शीतानीलतुषारत्वं नर्द्दनं मृगपक्षिणां । रक्षोयक्षादिसत्त्वानां दर्शनं वागमानुषी ॥- दिशो धूमान्धकाराश्च शलभा वनपर्ब्बताः । उच्चैः सूर्य्योदयास्तत्वं हेमन्ते शोभना मताः ॥ * ॥ हिमपातानिलोत्पातविरूपाद्भुतदर्शनं । दृष्ट्वाञ्जनाभमाकाशं तारोल्कापातपिञ्जरं ॥ चित्रा गर्भोद्भवाः स्त्रीषु गोऽजाश्वमृगपक्षिणां । पत्राङ्कुरलतानाञ्च विकाराः शिशिरे शुभाः ॥ ऋतुस्वभावजा ह्येते दृष्टाः स्वर्त्तौ शुभावहाः । ऋतावन्यत्र चोत्पाता दृष्टास्ते भृशदारुणाः” ॥ * ॥ उन्मत्तानाञ्च या गाथाः शिशूनाञ्चेष्टितञ्च यत् । स्त्रियो यच्च प्रभाषन्ते तत्र नास्ति व्यतिक्रमः ॥ पूर्ब्बं चरति देवेषु पश्चाद्गच्छति नुइषान् । नादेशिता वाग्वदति सत्या ह्येषा सरस्वती ॥ * ॥ वृहस्पतिः, -- “ज्योतिर्ज्ञानं तथोत्पातमविदित्वा तुये नृणां । श्रावयन्त्यर्थलोभेन विनेयास्तेऽपि यत्नतः ॥ विनेया दण्डनीयाः । इति ज्योतिस्तत्त्वं ॥
