अधमः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अधमः, त्रि, (अव पालने + अम, वस्य धादेशः ।) न्यूनः । निन्दितः । अपकृष्टः । तत्पर्य्यायः । निकृष्टः २ प्रतिकृष्टः ३ अर्व्वा ४ रेफः ५ याप्यः ६ अवमः ७ कुत्सितः ८ अवद्यः ९ कुपूयः १० खेटः ११ गर्ह्यः १२ अणकः १३ । इत्यमरः ॥ रेपः १४ अरमः १५ अणकः १६ अनकः १७ । इति तट्टीका ॥ (या- च्ञा मोघा वरमधिगुणे नाधमे लब्धकामा । इति मेघदूते) ॥
अधमः, पुं, (अव पालने + अम, वस्य धादेशः ।) उप- पतिभेदः । तस्य लक्षणं । भयदयालज्जाशून्यत्वं । कामक्रीडाविषये कर्त्तव्याकर्त्तव्याविचारकत्वञ्च । इति रसमञ्जरी ॥
