अधमर्णिकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अधमर्णिकः, त्रि, (अधममवश्यदेयत्वेन निन्दितं ऋणं । तदेव दातृत्वेन विद्यते अस्य । अधमर्ण + अत इनिठनाविति ठन् । तस्य इक ।) अधमर्णः । यथा, -- “ग्रहीतानुक्रमाद्दाप्यो धनिनामधमर्णिकः । दत्त्वा तु ब्राह्मणायैव नृपतेस्तदनन्तरं ॥” इति मिताक्षरा ॥ (“यै यैरुपायैरर्थं स्वं प्राप्नुयादुत्तमर्णिकः । तैस्तैरुपायैः संगृह्य दापयेदधमर्णिकं” ॥ इति मनुः ।) ॥
