अधरः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अधरः, पुं, (न ध्रियतेऽसौ धृ + अच् ततो नञ्- समासः ।) मुखावयवविशेषः । नावो ठो~ट । इति भाषा । ओष्ठः । उपर ठो~ट । इति भाषा । तयोः पर्य्यायः । रदनच्छदः २ दशनवासः ३ । इत्यमरः ॥ परन्तु द्वयोरपि ओष्ठाधरप्रयोगः यथा । रदन- च्छदौ दशनवाससी उभयत्र वर्त्तेते तथा ओष्ठा- धरावपि उभयत्रेति नयनानन्दः ॥ रायमुकुटो- ऽप्याह उपरिवर्त्ती अधोवर्त्ती च ओष्ठः अधरो- ऽप्येवं । पुरुषस्य रक्ताधरः प्रशस्तः । यथा, -- “पाणिपादतलौ रक्तौ नेत्रान्तरनखानि च । तालुकोऽधरजिह्वा च सप्त रक्तं प्रशस्यते ॥” स्त्रियास्तु यथा, -- “पाटलावर्त्तुलः स्निग्धो रेखाभूषितमध्यभूः । सीमन्तिनीनामधरो राज्ञां चैव प्रियो भवेत् ॥ श्यामः स्थ्रलोऽधरोष्ठः स्यात् वैधव्यकलहप्रदः । मसृणो मत्तकाशिन्याश्चोत्तरोष्ठः सुभोगदः ॥” इति सामुद्रकं ॥
अधरः, त्रि, (न धरः नञ्समासः । नीचः ।) अधः । तलं । हीनः । अपकृष्टः । इति मेदिनी ॥ हीन- वादी । इति हेमचन्द्रः ॥ (यथा शाकुन्तले । पिबसि रतिसर्व्वस्वमधरं ।) ॥
