अधर्म्मः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अधर्म्मः, पुं, (ध्रियतेऽनेन धृ + मनिन् ततो नञ्- समासः, नञत्र विरोधार्थः ।) धर्म्मविरोधो । स तु ब्रह्मणः पृष्ठाज्जातः । इति श्रीभागवतं ॥ पापं । अपराधः । श्रुतिस्मृतिविरुद्धाचारः । यथा, -- “अधर्म्मेणैधते राजन् ततो भद्राणि पश्यति । ततः सपत्नान् जयति समूलस्तु विनश्यति ॥” इति महाभारतम् । (“अधर्म्ममिदमत्यन्तं कथं भीष्मोऽनुमन्यते” । इति महाभारतं ॥)
