सामग्री पर जाएँ

अधिकारविधि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अधिकारविधि¦ पु॰ अधिकारे फलस्वाम्ये विधिर्विधानम्। मीमांसकोक्ते विधिभेदे कर्मजन्यफलभोक्तृताज्ञापके विधौयथा स्वर्गकामो यजेत इत्यनेन यागजन्यफलभोक्ता स्वर्गका-मीति ज्ञाप्यते। तत्र नियोज्यप्रवर्त्तनाविधिः अधिकारःयथा
“राजा राजसूयेन यजेतेति” तत्र राजसूये राज्ञएव नियोज्यतया तत्र प्रवर्त्तनात्तस्य तथात्वम् स्वस्वकर्मणिनियोगे च।

"https://sa.wiktionary.org/w/index.php?title=अधिकारविधि&oldid=485285" इत्यस्माद् प्रतिप्राप्तम्