अधिघर्म्म
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अधिघर्म्म¦ पु॰ दधिसंस्कारके वैदिके कर्म्मभेदे।
“दधिघर्म्मेणचरन्ति प्रवर्ग्यवांश्चेत्” आश्व॰ श्रौ॰
५ ।
१३ ।
१ । दधिघर्मोनाम कर्मविशेषः” नारा॰। स च कात्या॰ श्रौ॰ उक्तोयथा
१० ।
१ ।
२० ।
“सप्रवर्ग्ये दधिघर्म्मः” सू॰ दध्या-हरेति प्रेषितो दधिघर्मार्थं दध्याहरति तच्च यागार्थ-त्वात् सान्नास्यधर्मेण वत्सापाकरणादिना संस्कार्य्यंतत्र दध्नो द्व्यहसाध्यत्वात् पूर्वस्मिन्नहनि प्रातःसवनिकदध्यर्थदोहानन्तरं दधिचर्मः दध्यर्थमपि रात्रौ दोह आत-ञ्चनान्तः कर्त्तव्यः। तत्सम्बन्धिनो वत्सापाकरणादयो-ऽप्यनेनैव क्रमेण कर्त्तव्याः प्रवर्ग्यवत्येवायं दधिवर्मः” [Page3460-b+ 38] कर्कः। तत्करणप्रकारमपि तदुत्तरसूत्रैराह यथा
“उप-विश्य सदसः पुरस्तात् सपवित्रायामग्निहोत्रहवण्यांग्रहणं ययोक्तम्”
२१ सू॰। तत् प्रतिप्रस्थात्राहृतदधिउत्तरवेदेः पश्चादासाद्यालभ्य ततः सदसः पश्चादुपविश्यसपवित्रायामग्निहोत्रहवण्यां शाखापवित्रेणाग्निहो-त्रहवण्याम यथोक्तं यथा प्रवर्ग्याध्यायोक्तं तथाग्रहणं करोति अतो यावतीति मन्त्रान्ते स्थालीमुखेनै-वाग्निहोत्रहवण्यां निनयनं कर्त्तव्यम्। आनयनञ्च नि-नयनमेव” कर्कः विस्तरः तदुत्तरसूत्रेषु दर्शितः। तादृश-कर्मममुदायश्च दधिघर्मशब्दार्थः।
