सामग्री पर जाएँ

अधिदेवता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अधिदेवता¦ स्त्री अधिष्ठात्री देवता शा॰ त॰। अधिष्ठात्र्यांदेवतायाम्। देवतानाम् अधिष्ठातृत्वञ्च सन्निधान-मात्रेण तत्तत्पदार्थानां तत्तत्कर्म्मसु नियन्तृत्वरूपम्। तच्च साक्षात् परमेश्वरस्यैव यथोक्तम् वृ॰ उ॰ अन्तर्यामिब्राह्मणे।
“यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो, यंपृथिवी न वेद, यस्य पृथिवी शरीरं, यः पृथिवीमन्तरोयमयत्येष त आत्मान्तर्याम्यमृतः॥ योऽप्सु तिष्ठन्नद्भ्योऽ-न्तरो, यमापो न विदुर्यस्यापः शरीरं, योऽपोऽन्तरो यमय-त्येष त आत्मान्तर्य्याम्यमृतः। योऽग्नौ तिष्ठन्नग्नेरन्तरोयमग्निर्न वेद, यस्याग्निः शरीरं, योऽग्निमन्तरो यमयत्येपत आत्मान्तर्य्याम्यमृतः। योऽन्तरिक्षे तिष्ठन्नन्तरिक्षादन्तरो,यमन्तरिक्षं न वेद यस्यान्तरिक्षं शरीरं योऽन्तरिक्षमन्तरोयमयत्येष त आत्मान्तर्य्याम्यमृतः। यो वायौ तिष्ठन्वा-योरन्तरो, यं वायुर्न वेद, यस्य वायुः शरीरं, यो वायुमन्तरोयमयत्येष त आत्मान्तर्य्याम्यमृतः। यो दिवि तिष्ठन्दिवो-ऽन्तरो, यं द्यौर्न वेद, यस्य द्यौः शरीरं, यो दिवमन्तरोयमयत्येष त आत्मान्तर्य्याम्यमृतः। य आदित्ये तिष्ठ-न्नादित्यादन्तरो, यमादित्यो न वेद, यस्यादित्यः शरीरं,य आदित्यमन्तरो, यमयत्येष त आत्मान्तर्य्याम्यमृतः। यो दिक्षु तिष्ठन्दिग्भ्योऽन्तरो यं दिशो न विदुर्यस्य दिशः[Page0130-b+ 38] शरीरं, यो दिशोऽन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतः। यश्चन्द्रतारके तिष्ठंश्चन्द्रतारकादन्तरो, यञ्चन्द्रतारकं नवेद, यस्य चन्द्रतारकं शरीरं, यश्चन्द्रतारकमन्तरो यमय-त्येष त आत्मान्तर्य्याम्यमृतः। य आकाशे तिष्ठन्नाकाशा-दन्तरो, यमाकाशो न वेद, यस्याकाशः शरीरं, य आ-काशमन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतः। यस्त-मसि तिष्ठंस्तमसोऽन्तरो, यं तमो न वेद, यस्य तमःशरीरं,यस्तमोऽन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतः। यस्ते-जसि तिष्ठंस्तेजसोऽन्तरो, यं तेजो न वेद, यस्य तेजःशरीरं, यस्तेजोऽन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतइत्यधिदैवतम्। अथाधिभूतम् यः सर्व्वेषु भूतेषु तिष्ठन्सर्व्वेभ्योभूतेभ्योऽन्तरो, यं सर्व्वाणि भूतानि न विदुर्यस्य सर्व्वाणिभूतानि शरीरं, यः सर्व्वाणि भूतान्यन्तरो यमयत्येष तआत्मान्तर्य्याम्यमृत इत्यधिभूतम्। अथाध्यात्मम् यः प्राणेतिष्ठन्प्राणादन्तरो, यं, प्राणो न वेद, यस्य प्राणः शरीरं,यः प्राणमन्तरो यमयत्येष त आत्मन्तर्य्याम्यमृतः। योवाचि तिष्ठन्वाचोऽन्तरो, यं वाङ्न वेद, यस्य वाक् शरीरं,यो वाचमन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतः। यश्च-क्षुषि तिष्ठंश्चक्षुषोऽन्तरो, यं चक्षुर्न वेद, यस्य चक्षुःशरीरं,यश्चक्षुरन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतः। यःश्रोत्रे तिष्ठञ्छोत्रादन्तरो, यं श्रोत्रं न वेद, यस्य श्रोत्रंशरीरं, यःश्रोत्रमन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतः। यो मनसि तिष्ठन्मनसोऽन्तरो, यं मनो न वेद, यस्य मनःशरीर यो मनोऽन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतः। यस्त्वचि तिष्ठंस्त्वचोऽन्तरो, यं त्वङ्न वेद, यस्य त्वक् शरीरं,यस्त्वचमन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतः। योविज्ञाने तिष्ठन्विज्ञानादन्तरो, यं विज्ञानं न वेद, यस्यविज्ञानं शरीरं, यो विज्ञानमन्तरो यमयत्येष त आत्मा-न्तर्य्याम्यमृतः। यो रेतसि निष्ठन्रेतसोऽन्तरो, यं रेतोन वेद, यस्य रेतः शरीरं, यो रेतोऽन्तरो यमयत्येष तआत्मान्तर्य्याम्यमृतोऽदृष्टो द्रष्टा,ऽश्रुतः श्रोता, ऽमतोमन्ता, ऽविज्ञातो विज्ञाता, नान्योऽतोऽस्ति द्रष्टा, नान्यतो-ऽस्ति श्रोता, नान्यतोऽस्ति मन्ता, नान्यतोऽस्ति विज्ञातैषत आत्मान्तर्य्याम्यमृतोऽतोऽन्यदार्त्तम्” इति। तस्यैवांशं-विशेषेणाविर्भूतानां दिगाद्यभिमानिदेवानामिन्द्रियाधिष्ठा-तृत्वं यथा
“वैकारिकादहङ्काराद्देवा वैकारिका दश। दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमित्रका” इति शार॰।
“शक्तिसामर्थ्याद्विकृतपरमेश्वरादुत्पन्नत्वेनाऽहङ्कारस्य तदु-[Page0131-a+ 38] त्पन्नदेवानाञ्च वैकारिकत्वमिति” राघवभट्टेन व्याख्या-तम्।
“वैकारिका दिगाद्याश्च चन्द्रेणैकादश स्मृताः। इन्द्रियाणामधिष्ठातृदेवास्ते परिकीर्त्तिता” इति तद्धृता-भियुक्तोक्तिः। तथा च श्रोत्रस्य दिक्, त्वचो वातः,नेत्रस्य अर्कः, रसनायाः वरुणः, घ्राणस्य अश्विनौ,वागिन्द्रियस्य वह्निः, हस्तस्य इन्द्रः, पादस्य उपेन्द्रः,पायोः मित्रः, उपस्थस्य (कः) प्रजापतिः, मनसः चन्द्रः,इत्येते एकादशेन्द्रियाणामधिष्ठातृदेवाः।
“ईश्वरंभास्करे विद्यादुमां विद्यान्निशाकरे। स्कन्दमङ्गा-रके विद्याद्बुधे नारायणं विदुः। गुरौ वेदनिघिं विद्यात्शुक्रे शक्रो विधीयते। शनैश्चरे यमं विद्याद्राहोः कालं तथैवच। चित्रगुप्तोऽधिपः केतोरित्येते ग्रहदेवताः” इति (मत्स्य-पुरा॰) उक्ता ग्रहाणमधिदेवाः। एतेषां पुनरधिष्ठातृदेवाश्चप्रत्यधिदेवतात्वेन व्यवह्रियन्ते ते च प्रत्यधिदेवताशब्देदर्शयिष्यन्ते। अधिदेवताप्यत्रैव।
“आदित्याभिमुखाः सर्वेसाधिप्रत्यधिदेवता” इति मत्स्यपु॰।
“शशाङ्कमूर्त्तेरधिदेव-ताकृतिरिति” भट्टिः। चन्द्राधिदेवता उमा।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अधिदेवता¦ m. (-ता) A tutelary, or presiding divinity. E. अधि, and देवता a deity.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अधिदेवता/ अधि-देवता f. a presiding or tutelary deity.

"https://sa.wiktionary.org/w/index.php?title=अधिदेवता&oldid=197481" इत्यस्माद् प्रतिप्राप्तम्