अधियज्ञः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अधियज्ञः¦ पु॰ अधिकृतोयज्ञो यस्मात् प्रा॰ ब॰। परमेश्वरे।
“अधियज्ञः कथं? कोऽत्रे” त्यर्जुन प्रश्ने।
“अधियज्ञोऽहमेवात्र देहे देहभृतां वर!” इति भगवदुत्तरम् गीतायाम्।
“अत्रास्मिन् देहेऽन्तर्यामित्वे न स्थितोऽहमधियज्ञः यज्ञा-दिकर्म्मप्रवर्त्तकस्तत्फलदाता चेति” श्रीधरः। यथा चतस्य सर्व्वान्तर्यामित्वं तथा अधिदेवताशब्देऽन्तर्यामि-ब्राह्मणे पुरस्ताद्दर्शितम्। यज्ञे विभ॰ अव्ययी॰। यज्ञ-मधिकृत्येत्यर्थे अव्य॰। अधियज्ञं ब्रह्म जपेदिति मनुः,यागे विभ॰ अव्ययी॰। अधियागमप्युक्तार्थे अव्य॰। अधिकःअधिकाङ्गयागः प्रा॰ स॰। अधिकाङ्गे यागे पु॰।
