सामग्री पर जाएँ

अधिवासः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अधिवासः, पुं, (अधि + वस् + घञ् ।) निवासः । धूपनादिभिः संस्कारः । इति मेदिनी ॥ तद्- द्रव्याणि । मृत्तिका १ गन्धः २ शिला ३ धान्यं ४ दूर्व्वा ५ पुष्पं ६ फलं ७ दधि ८ घृतं ९ स्वस्तिकं १० सिन्दूरं ११ शङ्खः १२ कज्जलं १३ रोचना १४ श्वेतसर्षपः १५ स्वर्णं १६ रौप्यं १७ ताम्रं १८ चामरं १९ दर्पणं २० दीपः २१ प्रशस्तपात्रं २२ । इति भवदेवः ॥ क्वचित् पुस्तके श्वेतसर्षपस्थाने सिद्धान्नं क्वचिच्च चामरस्थाने । तत्रानुष्ठानं । ~दुर्गापूजादोलयात्रायागादौ पूर्ब्बदिने सायंकाले आचारात् संस्कारकर्म्मणि तद्दिने पूर्ब्बाह्ने मन्त्रं पठित्वा क्रमेणोक्तद्रव्याणि आदौ देवादीनां ललाटे पश्चाद्भूमौ स्पर्शयित्वा प्रशस्तपात्रे स्थापयित्वा तत्पात्रं पूब्बाक्तक्रमेण वारत्रयं स्पर्शयेत् । द्रव्य- विशेषेण संस्कारः । तत्र यजुर्व्वेदोक्तमन्त्रा- स्त्रयोविंशतिद्रव्याणि च यथा । तैलहरिद्रां गृहीत्वा, -- “ओ~ कोसि कतमोसि कस्मै त्वा काय त्वा सुश्लोकः सुमङ्गलः सत्यराजन् । अनया तैलहरिद्रया अस्य शुभाधिवासनमस्तु । एवं सर्व्वत्र” । १ । गन्धं गृहीत्वा, -- “ओ~ गन्धद्वारां दुराधषां नित्यपुष्णां करीषिणीं । ईश्वरीं सर्व्वभूतानां त्वामिहोपाह्वये श्रियं” । २ । महीं गृहीत्वा, -- “ओ~ भूरसि भूमिरस्य दितिरसि विश्वधाया विश्वस्य भुवनस्य धत्रों पृथिवीं यच्छ पृथिवीं दृ¤ह पृथिवीं माहि¤सीः” । ३ । पुनर्गन्धेन गन्धद्वारामिति । शिलां गृहीत्वा, -- “ओ~ प्रपर्ब्बतस्य वृषभस्य पृष्ठान्नावश्चरन्ति स्वसि च इत्यानाः ता आवृत्र नधरा गुदक्ता अहिं बुध्न्यमनुरीयमानाः । विष्णोर्विक्रमणमसि विष्णो- र्विक्रान्तमसि विष्णोः क्रान्तमसि” । ४ । धान्यं गृहीत्वा, -- “ओ~ धान्यमसि धिनुहि देवान् धिनुहि यज्ञं धिनुहि यज्ञपतिं धिनुहि भां यज्ञन्यं” । ५ । दूर्व्वां गृहीत्वा, -- “ओ~ काण्डात् काण्डात् प्ररोहन्ती परुषः परुषः परिएवानो दूर्ब्बे प्रतनु सहस्रेण शतेन च” । ६ । पुष्पं गृहीत्वा, -- “ओ~ श्रीश्च ते लक्ष्मीश्च पत्न्या अहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्याप्तं इष्णुन्निशान मुम्म- इशान सर्व्वलोकम्मैशान” । ७ । फलं गृहीत्वा, -- “ओ~ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः वृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व¤- हसः” । ८ । दधि गृहीत्वा, -- जातो जनिमान्योजसा प्रतिभागन्नदीधिमः” । १५ । इति रोचनया । “ओ~ प्रणीउषा अपूर्ब्बा व्युत्सति प्रिया दिवस्तुषे वा मश्विना वृहत्” । १६ । इति सिद्धार्थेन । “ओ~ सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यं । सनिं मेधा मयासिषं” । १७ । इति काञ्चनेन । “ओ~ यद्वर्च्चोहिरण्यस्य यद्वा वर्च्चो गवामुत । सत्यस्य ब्रह्मणो वर्च्चस्तेन मा संसृजामसि” । १८ । इति रौप्येण । “ओ~ रन्महांसि सूर्य्य वडादित्य महां असि महस्ते सतो महिमापनिष्ट समह्ना देवमहां असिः” । १९ ॥ इति ताम्रेण । “ओ~ मनज्योतिर्जुषतामाज्यस्य वृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं । यज्ञं समिमं दधातु विश्वे देवाः स इह मादयन्ता मों प्रतिष्ठ” । २० । इति दीपेन । “ओ~ आदित्य प्रयतस्य वेत्तसो ज्योतिः पश्यन्ति वासरं पावाय दिव्यं तोदिवि” । २१ । इति दर्पणेन । “ओ~ उद्यल्लोकानरोचय प्रभभूतमरोचय होइ इमान् लोकानरोचय होइ विश्वभूतमरोचय । होहा ऐवात्र धर्म्मो ज्योतीषि” । २२ । इति प्रशस्तपात्रेण । प्रशस्तपात्रं पूर्ब्बोक्तसर्व्वद्रव्य- स्थापितैकपात्रं । इति सामवेदीयदुर्गोत्सव- पद्धतिः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अधिवासः [adhivāsḥ], 1 Abode, residence; dwelling; सतत˚सुभगा- पिंतस्तनम् Māl.5.8; तस्यापि स एव गिरिरधिवासः K.137; लक्ष्मीभृतो$म्भोधितटाधिवासान् Śi.3.71 situated on; settlement, habitation. वसन्ति मन्नियोगेन अधिवासं च राक्षसाः Rām.3.36.4.

An inhabitant, neighbour.

Obstinate pertinacity in making a demand, sitting without food before a person's house till he ceases to oppose or refuse it (Mar. धरणें).

[अधिवासयति देवता अनेन, करणे घञ्] Consecration of an image especially before the commencement of a sacrificial rite; see अधिवासनम् also. शुद्धाधिवासाश्च विशुद्धसत्त्वाः Bu. Ch.1.39.

A garment, mantle (अधीवासः also).

A birth-place; जातिश्रेण्यधि- वासानां कुलधर्माश्च सर्वतः । वर्जयन्ति च ये धर्मं तेषां धर्मो न विद्यते ॥ Mb.12.36.19.

अधिवासः [adhivāsḥ], Application of perfumes or fragrant cosmetics; scenting, perfuming; fragrance, scent, fragrant odour itself; अधिवासस्पृहयेव मारुतः R.8.34; Śi.2.2, 5.42; K.183.

"https://sa.wiktionary.org/w/index.php?title=अधिवासः&oldid=197627" इत्यस्माद् प्रतिप्राप्तम्