सामग्री पर जाएँ

अधोमुखः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अधोमुखः, त्रि, (अधोमुखं यस्य सः ।) अधोवदनः । पातालमुखः । तत्पर्य्यायः । अवाङ्मुखः २ । इत्य- मरः ॥ अवाचीनः ३ । इति जटाधरः ॥ अधो- मुखनक्षत्रगणो यथा, -- “अश्लेषवह्नियमपित्र्यविशाखयुक्तं पूर्ब्बत्रयं शतभिषा च नवाप्युडूनि । एतान्यधोमुखगणानि शुभानि नित्यं विद्यार्घ्यभूमिखननेषु च शोभितानि” ॥ इति ज्योतिःसारसंग्रहः ।

"https://sa.wiktionary.org/w/index.php?title=अधोमुखः&oldid=111112" इत्यस्माद् प्रतिप्राप्तम्