सामग्री पर जाएँ

अध्यर्द्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अध्यर्द्ध¦ त्रि॰ अधिकमर्द्धं यस्य ब॰। स्वार्द्धेन सहिते वस्तुमात्रे।
“एकाधिकं हरेज्ज्येष्ठः पुत्रोऽध्यर्द्धं ततोऽनुज” इति मनुः। एकाधिकमंशं द्वावंशाविति यावत् ज्येष्ठपुत्त्रो गृह्णीयात्अधिकर्मद्धं यत्रांशे सार्द्धमंशं इति कुल्लू॰। अर्द्धशब्दःरूपकार्द्धेरूढः तेन सार्द्धरूपके च। अध्यर्द्धपूर्ब्बात् क्रीताद्यर्थे
“अध्यर्द्धपूर्ब्बद्विगोर्लुगसंज्ञायामिति” पा॰ अध्यर्द्धपूर्ब्बात्द्विगोश्चार्हीयस्य टञो लुक्। अध्यर्द्धकंसम्।
“विंशति-कात्ख” इति षा॰। खविधान्न लुक्। अध्यर्द्ध-विंशतिकीनं
“खार्य्याईकन्” पा॰। अर्ध्यर्द्धखारी-कम्
“पणपादमाषशताद्यत्” पा॰। अध्यर्द्धपण्यं अध्यर्द्ध-पाद्यम् अध्यर्द्धमाष्यम् अध्यर्द्धशत्यम्
“शाणाद्वेति” पा॰यत् ठञ् तस्य लुक्च वेति अध्यर्द्धशाण्यम् अध्यर्द्धशाणम्। इत्यादयः शब्दाः तत्क्रीतार्थे त्रि॰। अध्यृध्नोति यत्र अधि +ऋध--आधारे घञ्। वायौ।
“कत्येव देवा याज्ञवल्क!इति” याज्ञवल्क्यं प्रति शाकल्यप्रश्ने तत्र याज्ञवल्क्येन
“अध्यर्द्ध” इत्युत्तरं (वृ॰ उ॰) दत्तम् तस्य विशेषज्ञानाय[Page0139-a+ 38]
“कतमोऽध्यर्द्ध” ? इति पुनः शाकल्यप्रश्ने,
“योऽयं पवत” इत्युक्तं तत्र पवत इत्यनेन वायुरुकः।
“तदाहुर्यदयमेकएषपवते अथ कथमध्यर्द्ध” ? इति। वायोरेकत्वेन अध्यर्द्ध-शब्दार्थस्य सार्द्धत्वस्यासम्भवे पुनराक्षिप्ते
“यदस्मिन् इदं सर्व-मध्यार्ध्नोत् तेनाध्यर्द्ध” इत्युत्तरम् तेन अधिकवृद्धिहेतुत्वात्वायोरध्यर्द्धत्वात् तथात्वम् अधि + ऋध--लङ् अध्यार्ध्नोत्।

"https://sa.wiktionary.org/w/index.php?title=अध्यर्द्ध&oldid=197845" इत्यस्माद् प्रतिप्राप्तम्