सामग्री पर जाएँ

अध्यायः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अध्यायः, पुं, (अधि + इङ् + भावे घञ् अध्ययनम् ।) वेदपुराणादिपरिच्छेदः । ग्रन्थसन्धिः । तन्नामान्त- राणि यथा । सर्गः । वर्गः । परिच्छेदः । उद्घातः । अङ्कः । संग्रहः । उच्छूआसः । परिवर्त्तः । पटलः । काण्डं । स्थानं । प्रकरणं । पर्व्व । आह्निकं । इति त्रिकाण्डशेषः ॥ स्कन्धः । स्तवकः । उल्लासः । पादः । उद्योतः । विरचनं । इत्याद्यपि ॥ यदुक्तम् । (“सर्गोवर्गपरिछेदोद्घाताध्यायाङ्कसंग्रहाः । उच्छूआसः परिवर्त्तश्च पटलः काण्डमेव च ॥ स्यानं प्रकरणं चैव पर्व्वोल्लासाह्णिकानि च । पुराणादौ परिच्छेदा अनेके परिकीर्त्तिताः ॥”)

"https://sa.wiktionary.org/w/index.php?title=अध्यायः&oldid=111133" इत्यस्माद् प्रतिप्राप्तम्