अध्वग
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अध्वगः, पुं, (अध्वना पथा गच्छति अध्वन् + गम् + डः, उपपदसमासः ।) पथिकः । इत्यमरः ॥ उष्ट्रः । इति त्रिकाण्डशेषः ॥ सूर्य्यः । इति हेमचन्द्रः ॥ खेसरः । इति राजनिर्घण्टः ॥ खचर इति भाषा ।
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अध्वग पुं।
पान्थः
समानार्थक:अध्वनीन,अध्वग,अध्वन्य,पान्थ,पथिक
2।8।17।1।2
अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि। स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अध्वग¦ पु॰ अध्वत् + गम--ड। पथिके अध्वगमनप्रकारश्चविष्णुसंहितायामुक्तः। यथा
“नैकोऽध्वानं प्रपद्येतनाधार्मिकैः सार्द्धम्, न वृषलैः, न द्विषद्भिः, नाति-प्रत्यूषम्, नातिसायम्, न सन्ध्ययोः, न मध्याह्ने, नसन्निहितपानीयम्, नातितूर्णम्, न रात्रौ, न सन्ततव्याधितार्त्तैर्वाहनैः, न हीनाङ्गैः, न रोगिभिः, नदीनैः, न गोभिः, नादान्तैः, यवसोदकैर्वाहनाना-मदत्त्वात्मनः क्षुत्तृष्णापनोदने न कुर्य्यात्। न चतुष्पथ-मधितिष्ठेत्, न रात्रौ वृक्षमूलम्, न शून्यालयं, नतृणम्, न पशूनां बन्धनागारम्, न केशतुषकपालास्थि-भस्माङ्गारान्, न कार्पासास्थि। चतुष्पथं प्रदक्षिणी-कुर्य्यात् देवताञ्च। प्रज्ञातांश्च वनस्पतीन्, अग्निब्राह्मण-गणिकापूर्णकुम्भादर्शच्छत्रध्वजपताकाश्री वृक्षवर्द्धमाननन्द्या-वर्त्तांश्च, तालदन्तचामराग्निगजाजगोदधिक्षीरमधुसिद्धार्थ-कांश्च, वीणाचन्दनायुधार्द्र गोमयपुष्पशाकगोरीचनादूर्वाप्ररो-हांश्च, उष्णीषालङ्कारमणिकनकरजतवस्त्रासनयानामिषांश्च,भृङ्गारोद्धृतोर्वरारज्जुबद्धपशुकुमारीमीनांश्च दृष्ट्वा प्राया-दिति। मत्तोन्मत्तव्यङ्गान् दृष्ट्वा निवर्त्तेत वान्तविविक्तमुण्ड-मलिनवसनजटिलवामनांश्च, कषायिप्रव्रजितमलिनांश्च,तैलगुडशुष्कगोमयेन्धनतृणकुशपलाशभस्माङ्गारांश्च, लब-णक्लीवासवनपुंसककार्पासरज्जुनिगडमुक्तकेशांश्च, वीणाच-न्दनार्द्रकाशोष्णीषालङ्करणकुमारीः प्रस्थानकालेऽभिवन्दये-दिति। देवब्राह्मणगुरुदीक्षितानां छायां नाक्रामेत्,[Page0142-a+ 38] निष्ठ्यूतवान्तरुधिरविण्मुत्रस्नानोदकानि वा। न वत्सतन्त्रींर्लङ्घयेत्। प्रवर्षति न धावन्, न वृथा नदीं तरेत्। न देवताभ्यः पितृभ्यश्च कामं प्रदाय, न बाहुभ्याम्,न भिन्नया नावा। न कच्छमधितिष्ठेत्। न कूपमवलो-कयेत्, न लङ्घयेत्। वृद्धभारिनृपस्नातस्त्रीरोगिवरचक्रि-णाम् पन्थादेयो नृपस्तेषां मान्यः स्नातश्च भूपतेरिति”।
“सन्तानकतरुच्छायसुप्तविद्याधराध्वगमिति” कुमा॰। सूर्य्ये, उष्ट्रे, च। पथिगामुकमात्रे त्रि॰। गङ्गायांस्त्री अश्वतरे पु॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अध्वग¦ mf. (-गः-गा) A traveller. m. (-गः)
1. A camel.
2. The sun. f. (-गा) A name of the river Ganges. E. अध्वन् a road, and ग who goes, from गम, with ड aff.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अध्वग/ अध्व--ग mf( आ)n. road-going , travelling
अध्वग/ अध्व--ग m. a traveller
अध्वग/ अध्व--ग m. a camel , a mule