अध्वर्य्यु
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अध्वर्य्युः, पुं, (अध्वरं यज्ञं यौति सम्पादयति अध्वर + यु + कर्त्तरि क्विप्, पृषोदरादित्वात् तुम्भावः रस्याकारलोपः, होमकारी ऋत्विक् ।) यजुर्वेद- वेत्ता । इत्यमरः ॥ (यथा कुमारसम्भवे, -- “विवाहयज्ञे विततेऽत्र यूय- मध्वर्य्यवः पूर्ब्बवृता मयेति” ।)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अध्वर्य्यु¦ पु॰ अध्वरमिच्छति अध्वर + क्यच्--युच् ततोऽन्त्या-कारलोपः। यजुर्वेदज्ञे होमकारिणि ऋत्विजि।
“निर्मिमीते क्रियासङ्घैरध्वर्य्युर्यज्ञियं वपु” रिति सा॰ भा॰। सोमयागे षोडशसु ध्वत्विक्षु चतुर्षु प्रधानेषु मध्ये ऋत्वि-द्भेदे तद्विवरणम् अच्छावाकशब्दे दृश्यम्।
“होता प्रथमंशंसति तमध्वर्युः प्रोत्साहयतीति” सि॰ कौ॰।
“त्वम-ध्वर्य्युरुत होतासि पूर्ब्बाः प्रशास्तापोता जनुषा पुरोहित” इति ऋ॰
१ ,
९४ ,
६ । योपधत्वात् स्त्रियां न ङीप्। अध्वर्योर्भावः कर्म उद्गा॰ अण् आध्वर्य्यवम् तद्भावादौ न॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अध्वर्य्यु¦ m. (-र्य्युः) A Brahman versed in the Yajurveda. E. अध्वर a sacri- fice, क्यच् and उ affix, अ being dropped.