अनंश
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनंश¦ त्रि॰ नास्ति अंशोदायग्रहणाधिकारोऽस्य। अंशानधि-कारिणि स्मृत्युक्ते क्लीवपतितादौ। ते च
“सर्व्वे हि धर्म्मयुक्ताभागिनो द्रव्यमर्हन्ति यस्त्वधर्म्मेण द्रव्याणि प्रतिपादयति[Page0143-b+ 38] ज्येष्ठोऽपि तमभागं कुर्वीतेति” आप॰।
“सवर्णाजोप्यगुणवा-न्नार्हः स्यात् पैतृके धने। तत्पिण्डदाः श्रोत्रिया येतेषां तदभिधीयते। उत्तमर्णाधमर्णेभ्यः पितरं त्रायतेसुतः। अतस्तद्विपरीतेन नास्ति तेन प्रयोजनम्। तया गवा किं क्रियते या न धेनुर्न गर्भिणी। कोऽर्थःपुत्रेण जातेन यो न विद्वान् न धार्म्मिकः। शास्त्र-शौर्य्यार्थरहितस्तपोविज्ञानवर्ज्जितः। आचारहीनः पुत्त्रस्तुमूत्रोच्चारसमस्तु स इति वृह॰
“श्राद्धादेः पुत्त्रकर्त्तृकतयामहाफलश्रुतेस्तत्कर्म्मवेतनं धनसम्बन्धित्वं अतस्तदकुर्व्वतःकुतो वेतन? मिति दा॰ भा॰। अतएवाह मनुः।
“सर्व-एव विकर्म्मस्था नार्हन्ति भ्रातरो धनम्”। तथा
“अनंशौक्लीवपतिती जात्यन्धबधिरौ तथा। उन्मत्तजडमूकाश्च ये चकेचिन्निरिन्द्रियाः इति।
“पतितस्तत्सुतः क्लीवः पङ्गरुन्म-त्तको जडः। अन्धोऽचिकित्स्यरोगार्त्तो भर्त्तव्यास्ते निरं-शका” इति कात्या॰। देवलः
“मृते पितरि न क्लीवकुष्ठ्युन्म-त्तजडान्धकाः। पतितः पतितापत्यं लिङ्गी दायांशभागिनः। तेषां पतितवर्ज्जेभ्यो भक्तवस्त्रं प्रदीयते। तत्सुताः पितृ-दायांशं लभेरन् दोषवर्ज्जिता” इति। बौधायनः।
“अतीतव्यवहारान् ग्रासाच्छादनैर्बिभृयुः, अन्धजडक्लीव-व्यसनिव्याधितादींश्चाकर्म्मिणः पतिततज्जातवर्जम् इति”।
“पितृद्विट् पतितः पण्डो यश्च स्यादौपपातिकः। औरसा अपि नैतेऽंशं लभेरन् क्षेत्रजाः कुतः?। इति” नार॰
“अक्रमोढासुतश्चैव सगोत्राद्यस्तु जायते। प्रव्रज्यावसितश्चैव न रिक्थं तेषु चार्हति। अक्रमोढा-सुतस्त्वृक्थी सवर्णश्च यदा पितुः। असवर्णप्रसूतश्चक्रमोढायाश्च यो भवेत्। प्रतिलोमप्रसूतोयस्तस्याः पुत्त्रो नरिकथभाक्। ग्रासाच्छादनमात्रं तु देयं तद्बन्धुभिर्मतम्बन्धूनामप्यभावे तु पित्र्यं द्रव्यं तदाप्नुयात्। स्वपित्र्यंतद्धनं प्राप्तं दापनीया न बान्धवा इति कात्या॰। एवंदर्शिताः। अंशः अवयवः। तच्छून्ये निरयवे आका-शादौ, परमेश्वरे च।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनंश¦ mfn. (-शः-शा-शं) Portionless, not entitled to a share or portion. E. अन् neg. अंश a part.
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनंश [anaṃśa], a. [न. ब.]
Not entitled to a share in the inheritance; ˚शौ क्लीबपतितौ जात्यन्धबधिरौ तथा । उन्मत्तजड- मूकाश्च ये च केचिन्निरिन्द्रियाः ॥ Ms.9.21. Other persons are also mentioned by Devala, Baudhāyana, Kātyāyana and Nārada.
Without parts, undivided, portionless; an epithet of the sky or the Supreme Being.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनंश/ अन्-अंश or अन्-अंशिन्mfn. portionless , not entitled to a share in an inheritance.
