अनड्वान्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनड्वान्, [डुह्] पुं, (अनडुह् + प्रथमैकवचनम् ।) वृषः । ए~डे इति भाषा । तत्पर्य्यायः । गौः २ भद्रः ३ बलीवर्द्दः ४ दम्यः ५ दान्तः ६ स्थिरः ७ बली ८ उक्षा ९ ककुद्मान् १० ऋषभः ११ वृषभः १२ वृषः १३ धुर्य्यः १४ धुरीयः १५ धौरेयः १६ शाङ्करः १७ शिववाहनः १८ रोहिणी- रमणः १९ वोढा २० गोनाथः २१ सौरभेयकः २२ । इति राजनिर्घण्टः ॥ (यथा मनुः, -- “अजमेषावनड्वाहं खरं हत्वैकहायनम्” ॥)
