अनतिविलम्बिता
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनतिविलम्बिता¦ स्त्री न अतिविलम्बिता अभावार्थेन॰ त॰। अतिविलम्बाभावे वाग्गुणभेदे च। वाग्गुणाश्चहेमचन्द्रे दर्शिताः यथा
“संस्कारवत्त्वमौदार्य्यमुपचारपरीतता। मेघगाम्भीय्यनिर्घोषप्रतिनादविधायिता दक्षि-णत्वमुपनीतरागत्वं च महार्थता। अव्याहतत्वंश्लिष्टत्वं संशयानामसम्भवः। निराकृतान्योत्तरत्वं हृदय-ङ्गमिताऽपि च। मिथः साकाङ्क्षता प्रस्तावौचित्यं तत्त्व-निष्ठता। अप्रकीर्णप्रसृतत्वमसंश्लाघ्यान्यनिन्दिता। आभिजात्यमतिस्निग्धमधुरत्वं प्रशस्यता। अमर्मवेधितौदार्य्यं धर्म्मार्थप्रतिविद्धता। कारकाद्यविपर्य्यासोविभ्र-मादिवियुक्तता चित्रकृत्त्वमद्भुतत्वं तथानतिविलम्बिताअनेकजातिवैचित्र्यमारोपितविशेषता। सत्वप्रधानता वर्ण-पदवाक्यविविक्तता। अव्युत्थितिरखेदित्वम्पञ्चत्रिशच्चवाग्गुणाः” इति।
