अनध्याय
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनध्याय¦ पु॰ अध्यायोऽध्ययनमभावार्थे न॰ त॰। अध्यय-नाभावे। न अधीयतेऽस्मिन् काले इति अधिकरणे घञ्। अध्ययनाय निषिद्धे
“चातुर्मास्यद्वितीयादौ स्मृतिषूक्तान-ध्यायकाले
“अष्टकासु च संक्रान्तौ शयने बोधने हरेः। अनध्यायं प्रकुर्व्वी” तेत्यादुक्ते काले,
“निर्घाते भूमिचलने” इत्याद्याकालिकानध्यायकाले च। अनध्यायकालाश्च स्मृतौ[Page0146-a+ 38] दर्शिताः यथा
“प्रेकोचचा द्वितीयास्ताः प्रेतपक्षे गते तुया। या तु कोजागरे याते चैत्रावल्याः परेऽपि या। चातुर्मास्ये समाप्ते च द्वितीया या भवेत्तिथिः। परास्वेता-स्वनध्यायः पुराणैः परिकार्त्तित” इति राजमार्त्तण्डः।
“चैत्रकृष्णद्दितीयायां तिसृष्वेवाष्टकासु च मार्गे च फाल्गुनेचैव आषाढे कार्त्तिके तथा। पक्षयोर्माघमासस्य द्वितीयांपरिवर्ज्जयेदिति” भुजबलः।
“मन्वादौ च युगादौ चशिष्यान्नाध्यापयेद्बुधः”। निर्णयामृते
“रात्रौ याम-द्वयादर्व्वाक् सप्तमी च त्रयोदशी। प्रदोषः स तु विज्ञेयोवेदाध्ययनगर्हितः॥ रात्रौ नवसु नाडीषु चतुर्थी यदिदृश्यते। प्रदोषः स तु विज्ञेयोवेदाध्ययनगर्हित” इति॥ निर्णयसिन्धौ प्रजापतिः।
“षष्ठी च द्वादशी चैव अर्द्धरात्रो-ननाडिका। प्रदोषे त्वनधीयीत तृतीया नवनाडिका”॥ वृद्धगर्गः।
“स्मृतिषूक्ताननध्यायान् सप्तमीञ्च त्रयोदशीम्। पक्षयोर्माघमासस्य द्वितोयां परिवर्जयेत्” इति। अनध्या-यास्तु द्विविधा नित्या नैमित्तिकाश्चेति तत्र नित्याः।
“आ-षाढेफाल्गुने ज्येष्ठे या द्वितीषा विधुक्षये। चातुर्मास्य-द्वितीयास्ताः प्रवदन्ति महर्षयः”॥ गर्गोऽपि॥
“कृष्णपक्षेद्वितीयायां फाल्गुनाषाढकार्त्तिके। शुक्लाश्वयुग्द्वितीयायांनैवाध्ययनमाचरेत्” इति॥
“एतायुगादयः प्रोक्ताः स्वाध्यायंवर्जयेद्बुध” इति उश॰। गौतमः।
“चातुर्मास्यद्वितीयासु,मन्वादिषु युगादिषु। अष्टकासु च संक्रान्तौ शयने बोधनेहरेः। अनध्यायं प्रकुर्वीत तथा सोपपदासु चेति”। सोप-पदास्तु।
“सिता ज्यैष्ठे द्वितीया च आश्विने दशमी तथा। चतुर्थी द्वादशी माधे एताः सोपपदाः स्मृता इति” गर्गोक्ताः। वृहन्मनुः
“पक्षद्वये चतुर्दश्योरष्टमीद्वितीये तथा। पक्षा-दावपि पक्षान्ते ब्रह्म नाधीयते नरैः॥ अष्टमी हन्त्युपा-ध्यायं शिष्यं हन्ति चतुर्द्दशी। अमावस्योभयं हन्ति प्रतिपत्पाठमात्रत” इति। मनुः नैमित्तिकानध्यायानाह स्म।
“सन्ध्यागर्जितनिर्घातभूकम्पोल्कानिपातने। व्रतबन्धं नकुर्व्वीत” इति॥ तथापस्तम्बः॥
“उल्कायामग्न्युत्-पाते च सर्वासां विद्यानामाकालिकमिति”॥ स्मृत्यन्तरे॥
“विद्युद्गर्जितवृष्टीनां सन्निपातोयदा भवेत्। अनध्यायंप्रकुर्व्वीतेत्यादि”।
“व्रतेऽह्नि पूर्बसन्ध्यायां वारिदो यदिगर्ज्जति। तद्दिनं स्यादनध्यायं व्रतं तत्र विवर्जयेत्॥
“सायंसन्ध्यास्तनिते, प्रातःसन्ध्यास्तनिते अहोरात्रौ, विद्युत्यपर-रात्रावधि विद्युति, नक्तञ्चापररात्रादिति गौत॰। स्मृतिरत्नावल्याम्
“कालवृष्टौ च तत्कालमकाले च[Page0146-b+ 38] त्रिरात्रकम्। अतिमात्राथवा वृष्टिर्नाधीयीत दिनत्रयम्। अनुराधर्क्षमारभ्य षोडशर्क्षेषु भास्करः। यावच्चरतिचैतावदकालं मुनयो विदुः॥ तथा च वराहः। मार्गा-न्मासात् प्रभृति मुनयोव्यासवाल्मीकिगर्गाश्चैत्रं यावत् प्रव-र्षणविधौ नेतिकालं वदन्ति। नाडीजङ्घः सुरगुरुमुनिःप्राह वृष्टेरकालौ मासावेतावशुभफलदौ पौषमाघौ नशेषाः”। तत्राकालवृष्टौ पशुमर्त्यचरणाङ्कितायामेव दोषो-नान्यथा उक्तञ्च मुहूर्त्तचिन्तामणौ
“यदि मास्सु चतुर्षुपौषमासादिषु भवेदकालवृष्टिः। पशुमर्त्यचरणाङ्कितायांयावद्वसुधा नहि तावददोष” इति। तत्र दिनसंख्याप्युक्तातत्रैव। एकैनैकमहः प्रोक्तं द्वितीयेन त्रिरात्रकम्। तृतीये-न तु सप्ताहं दशरात्रमतः परमिति, पौषे दिनत्रयं वर्ज्यंमाघे चैव दिनद्वयम्। फाग्लुने दिनमेकन्तु चैत्रेतु घटिका-द्वय” मित्यावश्यककार्य्यविषयम्।
“अनध्यायस्य पूर्ब्बेद्युस्तस्यचैवापरेऽहनि। व्रतबन्धं विसर्गञ्च विद्यारम्भं न कार-येत्, इति नैमित्तिकानध्यायः। मनुरपि नित्याद्यनध्याय-माह स्म।
“इमान्नित्यानध्यायानधीयानो विवर्जयेत्। अध्यापनञ्च कुर्व्वाणः शिष्याणां विधिपूर्ब्बकम्॥ कर्णश्रवे-ऽनिले रात्रौ दिवा पांशुसमूहने। एतौ वर्षास्वनध्यायावध्य-यज्ञाः प्रचक्षते। विद्युत्स्तनितवर्षेषु महोल्कानाञ्च संप्लवे। आकालिकमनध्यायमेतेषु मनुरब्रवीत्। एतांस्त्वभ्युदितान्विद्यात् यदा प्रादुष्कृताग्निषु। तदा विद्यादनध्यायमनृतौचाभ्रदर्शने। निर्घाते भूमिचलने ज्योतिषाञ्चोपसर्जने। एतानाकालिकान् विद्यादनध्यायानृतावपि। प्रादुष्कृते-ष्वग्निषु तु विद्युत्स्तनितनिस्वने। सज्योतिः स्यादनध्यायःशेषे रात्रौ यथा दिवा। नित्यानध्यायएव स्याद्ग्रामेषुनगरेषु च। धर्म्मनैपुण्यकामानां पूतिगन्धे च सर्व्वदा। अन्तर्गतशवे ग्रामे वृषलस्य च सन्निधौ। अनध्यायोरुद्यमाने समवाये जनस्य च। उदके मध्यरात्रे चविण्मूत्रस्य विसर्जने। उच्छिष्टः श्राद्धभुक् चैव मनसापिन चिन्तयेत्। प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य केत-नम्। त्र्यहं न कीर्त्तयेद्ब्रह्म राज्ञो राहोश्च सूतके। यावदेकानुद्दिष्टस्य गन्धो लेपश्च तिष्ठति। विप्रस्य विदुषोदेहे तावद्ब्रह्म न कीर्त्तयेत्। शयानः प्रौढपादश्च कृत्वाचैवावशक्थिकाम्। नाधीयीतामिषं जग्ध्वा सूतकान्नाद्य-मेव च। नीहारे वाणशब्दे च सन्ध्ययोरेव चोभयोः। अमावास्याचतुर्द्दश्योः पौर्णमास्यष्टकासु च। अमा-वास्या गुरुं हन्ति शिष्यं हन्ति चतुर्द्दशी। ब्रह्माष्टका-[Page0147-a+ 38] पौर्णमास्यौ तस्मात्ताः परिवर्जयेत्। पांशुवर्षे दिशां दाहेगोमायुविरुते तथा। श्वखरोष्ट्रे च रुवति पङ्क्तौ च नपठेद् द्विजः। नाधीयीत श्मशानान्ते ग्रामान्ते गोव्रजेऽपिवा। वसित्वा मैथुनं वासः श्राद्धिकं प्रतिगृह्य च। प्राणि वा यदि वा प्राणि यत्किञ्चिच्छ्राद्धिकं भवेत्। तदा-लभ्याप्यनध्यायः पाण्यास्यो हि द्विजः स्मृतः। चौरै-रुपप्लुते ग्रामे संभ्रमे चाग्निकारिते। आकालिकमनध्यायंविद्यात् सर्वाद्भुतेषु च। उपाकर्मणि चोत्सर्गे त्रिरात्रंक्षपणं स्मृतम्। अष्टकासु त्वहोरात्रमृत्वन्तासु च रात्रिषु। नाधीयीताश्वमारूढो न वृक्षं, न च हस्तिनम्। न नावं,न खरं, नोष्ट्रं, नेरिणस्थो, न यानगः। न विवादे, नकलहे, न सेनायां, न सङ्गरे। न भुक्तमात्रे, नाजीर्णे, नवमित्वा, न सूक्तके। अतिथिञ्चाननुज्ञाप्य, मारुते वातवा भृशम्। रुधिरे च स्रुते गात्राच्छस्त्रेण च परि-क्षते। सामध्वनावृग्यजुषी नाधीयीत कदाचन। वेद-स्याधीत्य वाप्यन्तमारण्यकमधीत्य च” इति। याज्ञवल्क्यस्तु।
“त्र्यहं प्रेतेष्वनध्यायः शिष्यर्त्विग्गुरुबन्धुषु। उपाकर्मणि,चोत्सर्गे, स्वशाखश्रोत्रिये मृते। सन्ध्यागर्जितनिर्घातभूकम्पोल्कानिपातने। समाप्य वेदं द्युनिशमारण्यकम-धीत्य च। पञ्चदश्यां चतुर्द्दश्यामष्टम्यां राहुसूतके। ऋतुसन्धिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च। पशु-मण्डूकनकुलमार्जारश्वाहिमूषिकैः। कृतेऽन्तरे त्वहो-रात्रं, शक्रपाते, तथोच्छ्रये। श्वक्रोष्टुगर्द्दभोलूकसाम-वाणार्त्तनिस्वने। अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके। देशेऽशुचावात्मनि च विद्युत्स्तनितसंप्लवे। भुक्त्वार्द्र-पाणिरम्भोऽन्तरर्द्धरात्रेऽतिमारुते। पांशुवर्षे दिशां दाहेसन्ध्यानीहारभीतिषु। धावतः पूतिगन्धे च शिष्टे चगृहमागते। खरोष्ट्रयानहस्त्यश्वनौवृक्षेरिणरोहणे। सप्त-त्रिंशदनध्यायानेतांस्तात्कालिकान् विदुः” इति। वशिष्ठः।
“तस्यानध्यायाः सन्ध्यास्तमिते स्युस्तत्र शवे दिवाकोर्त्तौनगरेषु काम गोमयपर्य्युषिते परिलिखिते वा श्मशानान्तेशयानसा श्राद्धिकस्य। मानवञ्चात्र श्लोकमुदाहरन्ति। फलाग्वापस्तिलान् भक्ष्यमथान्यच्छ्राद्धिकं भवेत्। प्रति-गृह्याप्यनध्यायः पाण्यास्या, ब्राह्मणाः स्मृता इति॥ धावतः पूतिगन्धिप्रसृतेरिणवृक्षमारूढस्य, नावि, सेनायाञ्च,भुक्त्वा चार्द्धघ्राणे, वाणशब्दे, चतुर्द्दश्याममावास्यायामष्टम्या-मष्टकासु प्रसारितपादोपस्थस्योपाश्रितस्य गुरुसमीपे मिथु-नव्यपेतायां वाससा मिथुनव्यपेतेनानिर्मुक्ते न ग्रामान्ते-[Page0147-b+ 38] छर्दितस्य, मूत्रितस्योच्चरितस्य, यजुषाञ्च सायंशब्दे,वाजीर्णे निर्घातभूमौ च न चन्द्रसूर्य्योपरागेषु, दिङ्-नादपर्वतनादकम्प्रयातेषूपलरुधिरपांशुवर्षेष्वाकालिकम्। उल्काविद्युत्सज्योतिपमपर्त्त्वाकालिकं वा। आचार्य्ये चप्रेते त्रिरात्रर्माचार्य्यपुत्रशिष्यभार्य्यास्वहोरात्रम्। ऋत्विग्-योनिसम्बन्धेषु च” इति। शङ्ख्योऽप्याह। अनव्यायेष्वव्य-यनं वर्जयेच्च प्रयत्नतः। चतुर्दशीं पञ्चदशीमष्टमीं राहु-सूतकम्। उल्कापातं महीकम्पमशौचं ग्रामविप्लवम्। इन्द्र-प्रयागं सुरतं घनसंघातनिस्वनम्। वाद्यकोलाहलं युद्ध-मनध्यायं विवर्जयेत्। नाधीयीताभियुक्तोऽपि प्रयत्नान्नच वेगत” इति।
“यद्दिनमहः क्रियते तद्दिनमनध्याय” इत्युक्तेः देवोत्सवादिदिनेऽपि अनध्याय इति केचित् तेनसारस्वतोत्सवेश्रीपञ्चमीदिवसे रथयात्रोसवादौ चानध्यायः।
“महानवम्यां द्वादश्यां भरण्यामपि पर्वसु। तथाक्षय-तृतीयायां शिष्यान्नाध्यापयेद्बुधः। माघमासे तु सप्तम्यांरथाख्यायाञ्च वर्जयेदिति” हारीतः। एवं नानास्मृत्युक्ते-ष्वेषु च येन सर्वसंग्रहस्तथाचरणीयम्।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनध्याय¦ m. (-यः) Intermission of study. E. अन् neg. अध्याय reading.
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनध्यायः [anadhyāyḥ], अनध्ययनम् [न. त.] Not studying, intermission of study; the time when there is or ought to be such intermission, a holiday (˚दिवसः); अद्य शिष्टानध्यायः U.4 a holiday (given) in honour of distinguished guests. See Ms.2.15-6;4.13-4;15-8;117-8, 126 &c.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनध्याय/ अन्-अध्याय m. id.
अनध्याय/ अन्-अध्याय m. a time when there is intermission of study Mn.
Vedic Rituals Hindi
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनध्याय पु.
वेद-पाठ अथवा सामगायन आदि का न होना (या रुकना), गो.ब्रा. 1.1.22; हि.श्रौ.सू. 26.3.47; बौ.श्रौ.सू. 1.297ः17; बौ.गृ.सू. 3.4.33, विभिन्न प्रकार के अपशकुनों के निमित्त, जैसे- उल्का-पात, भूकम्प एवं अन्य कारण जैसे श्राद्ध खाना, किसी के गुरु की मृत्यु, पा.गृ.सू. 2.11.
