सामग्री पर जाएँ

अनन्तः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनन्तः, पुं, (नास्ति अन्तः विनाशो यस्य सः, तथाहि भागवते “लोके नष्टे द्विपरार्द्धावसाने भवानेकः शिष्यते शेषसंज्ञः” ।) विष्णुः । इति मेदिनी ॥ बल- देवः । अनन्तजिन्नाम जिनः । इति हेमचन्द्रः ॥ शेषनागः । इत्यमरः ॥ वासुकिः । इति शब्द- माला ॥ सिन्दुवारवृक्षः । इति राजनिर्घण्टः ॥

अनन्तः, त्रि, (नास्ति अन्तः सीमा विनाशो वा यस्य सः ।) अन्तरहितः । अनवधिः । अशेषः । असीमः । इत्यमरो मेदिनी च ॥ (यथा कुमार- सम्भवे । -- “अनन्तरत्नप्रभवस्य यस्य” ।)

"https://sa.wiktionary.org/w/index.php?title=अनन्तः&oldid=485545" इत्यस्माद् प्रतिप्राप्तम्