सामग्री पर जाएँ

अनन्तव्रत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनन्तव्रतम्, त्रि, (अनन्तस्य तन्नामकदेवस्य व्रतं षष्ठी- तत्पुरुषः ।) भाद्रशुक्लचतुर्दशीकर्त्तव्यमनन्तदेवस्य व्रतं । तद्विधिर्यथा । भविष्ये, -- “अनन्तव्रतमेतद्धि सर्व्वपापहरं शुभं । सर्व्वकामप्रदं नॄणां स्त्रीणाञ्चैव युधिष्ठिर ॥ तथा शुक्लचतुर्द्दश्यां मासि माद्रपदे भवेत् । तस्यानुष्ठानमात्रेण सर्व्वपापं प्रणश्यति” ॥ * ॥ व्रतारम्भप्रतिष्ठयोर्वर्ज्ज्यकालमाह ज्योतिषे, -- “गुरोर्भृगोरस्तबाल्ये वार्द्धके सिंहगे गुरौ । वक्रिजीवाष्टविंशेऽह्नि गुर्व्वादित्ये दशाहिके ॥ पूर्ब्बराशावनायातातिचारिगुरुवत्सरे । प्राग्राशिगन्तृजीवस्य चातिचारे त्रिपक्षके ॥ कम्पाद्यद्भुतसप्ताहे नीचस्थेज्ये मलिम्लुचे । भानुलङ्घितके मासि क्षये राहुयुते गुरौ ॥ पौषादिकचतुर्म्मासे चरणाङ्कितवर्षणे । एकेनाह्ना चैकदिने द्वितीयेन दिनत्रये ॥ तृतीयेन तु सप्ताहे माङ्गल्यानि शुभान्विताः । विद्यारम्भकर्णवेधौ चूडोपनयनोद्वहान् ॥ तीर्थस्नानमनावृत्तं तथानादिसुरेक्षणं । परीक्षारामयज्ञांश्च पुरश्चरणदीक्षणे ॥ व्रतारम्भप्रतिष्ठे च गृहारम्भप्रवेशने । प्रतिष्ठारम्भणे देवकूपादेर्वर्ज्जयन्ति हि ॥ द्वात्रिंशद्दिवसाश्चास्ते जीवस्य भार्गवस्य च । द्वासप्ततिर्म्महत्यस्ते पादास्ते द्वादशक्रमात् ॥ अस्तात् प्राक् परयोः पक्षं गुरोर्वार्द्धकबालते । पक्षंवृद्धो महास्ते तु भृगुर्बालो दशाहिकः ॥ पादास्ते तु दशाहानि वृद्धोबालो दिनत्रयं” ॥ * ॥ कृपया कथयस्वाद्य पथि दृष्टो मया विभो । श्रीअनन्त उवाच । यश्चाम्रवृक्षो दृष्टो हि विप्रो विद्यासु गर्व्वितः । उपस्थिताय शिष्याय विद्यां यस्मान्न दत्तवान् ॥ तेन कर्म्मविपाकेन वृक्षत्वं प्राप्य तिष्ठति । वृषभो यस्त्वया दृष्टो लोभकर्म्मकृतः पुरा ॥ दत्तं पर्य्युषितं द्रव्यं स्वादु भुक्तं स्वयं यतः । वृषभत्वं समासाद्य ततस्तिष्ठति निर्ज्जने ॥ विप्राय वसुधां दत्त्वा निष्फलां शस्यवर्ज्जितां । तेनासौ गोत्वमासाद्य तृणमध्ये प्रधावति ॥ धर्म्माधर्म्मौ विजानीयाद्यत्तत् पुष्करिणीद्वयं । गर्द्दभोऽज्ञानसम्पन्नः कुञ्जरो मदगर्व्वितः ॥ ब्राह्मणोऽसावनन्तोऽहं यस्त्वया दर्शितो मुने । एतत्ते कथितं सर्व्वं गच्छ विप्र निजाश्रमं ॥ पुनः समृद्धिस्ते विप्र भविष्यति न संशयः । भुक्त्वा भोगांश्च विपुलान् संप्राश्यसि महत् पदं ॥ इति दत्त्वा वरं तस्मै तत्रैवान्तरधीयत । कौण्डिन्योऽपि गृहं तत्वा करोति व्रतमुत्तमं ॥ अनन्ताख्यं महापुण्यं वर्षाणाञ्च चतुर्द्दशं । शीलया सह धर्म्मात्मा सुखं भुक्त्वा मनोरथान् ॥ विष्णुलोकं समासाद्य रराज शीलया सह । अनन्ताख्यव्रतेनेह समाप्तेनैव पार्थिव ॥ सर्व्वपापविनिर्म्मुक्ता यास्यन्ति परमां गतिं । एवमेवं हि नियमात् स्त्रियोऽनन्तव्रतान्नृप ॥ पुत्त्रपौत्त्रधनैर्युक्ता भुक्त्वा भोगान् मनोरथान् । विष्णुलोकमाप्नुवन्ति यावच्चन्द्रदिवाकरौ” ॥ इति भविष्यपुराणे अनन्तव्रतं समाप्तं ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनन्तव्रत¦ न॰ अनन्तस्य व्रतमुपासनार्थम्

६ त॰। भाद्र-शुक्लचतुर्द्दश्यां कर्त्तव्ये स्वनामख्याते व्रते।
“अनन्तव्रतमेतद्धिसर्वपापहरं शुभम्” इत्युपक्रम्य
“तथा शुक्लचतुर्द्दश्यां मासिभाद्रपदे भवेदिति” भवि॰ पुरा॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनन्तव्रत¦ n. (-तं) A ceremony performed in honour of VISHNU4, on the day of the full moon in Bha4dra. E. अनन्त, and व्रत a religious ob- servance.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनन्तव्रत/ अन्-अन्त--व्रत n. ceremony or festival in honour of अनन्तor विष्णु(on the day of the full moon in भाद्र)

अनन्तव्रत/ अन्-अन्त--व्रत n. N. of the 102nd अध्यायof the भविष्योत्तर-पुराण.

"https://sa.wiktionary.org/w/index.php?title=अनन्तव्रत&oldid=198225" इत्यस्माद् प्रतिप्राप्तम्