अनवरतम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनवरतम्, क्ली, (अव + रम् + भावे क्तः, नास्ति अव- रतं विरतिर्यत्र तत् ।) निरन्तरं । तत्पर्य्यायः । सततं २ अनारतं ३ अश्रान्तं ४ सन्ततं ५ अवि- रतं ६ अनिशं ७ नित्यं ८ अजस्रं ९ प्रसक्तं १० आसक्तं ११ अनद्धं १२ । इति जटाधरः ॥ तद्विशिष्टे वाच्यलिङ्गं । इत्यमरः ॥ (“अनवरतधनुर्ज्यास्फालनक्रूरकर्म्मा” । इति शाकुन्तले ।)
