अनागताबाध
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनागताबाध¦ अनागतः आबाधः दुःखम्। भाविदैहि-कादिदुःखे। यदाचरणेन भाविदुःखानुत्पादस्तादृशा उपायाःसुश्रुते दर्शिता यथा
“अथातोऽनागताबाधप्रतिषेधनीयंव्याख्यास्याम” त्युपक्रम्य।
“उत्थायोत्थाय सततं स्वस्थे-नारोग्यमिच्छता। धीमता यदनुष्ठेयं तत् सर्व्वं सम्प्र-वक्ष्यते॥ तत्रादौ दन्तपवनं द्वादशाङ्गुलमायतम्। कनिष्ठिकापरिणाहमृज्वग्रथितमव्रणम्। अयुग्मग्रन्थि य-च्चापि प्रत्यग्रं शस्तभूमिजम्। अवेक्ष्यर्तुञ्च दोषञ्च रसंवीर्य्यञ्च योजयेत्॥ कपायं मधुरं तिक्तं कटुकं प्रात-रुत्थितः। निम्बश्च तिक्तके श्रेष्ठः, कषाये खदिर-स्तया॥ मधूको मधुरे श्रेष्ठः, करञ्जः कटुके तथा। क्षौद्रव्योषत्रिवर्गाक्तं सतैलं सैन्धवेन च॥ चूर्णेन तेजो-वत्याश्च दन्तान्नित्यं विशोधयेत्,। एकैकं घर्षयेद्दन्तं मृदुनाकूर्चकेन च॥ दन्तशोधनचूर्णेन दन्तमांसान्यबाधयन्॥ तद्दौर्गन्ध्योपदेहौ तु श्लेष्माणं चापकर्षति। वैशद्यमन्नाभि-रुचिं मौमनस्यं करोति च॥ न खादेद्गलताल्वोष्ठजिह्वा-रोगममुद्भवे। अथास्यपाके श्वासे च कासहिक्कावमीषु च॥ दुर्ब्बलो जीर्णभक्तश्च मूर्च्छार्त्तो मदपीडितः। शिरोरु-गार्त्तस्तृषितः श्रान्तः पानक्लमान्वितः॥ अर्द्दिती कर्ण-[Page0154-b+ 38] शूली च दन्तरोगी च मानवः,। जिह्वानिर्लेखनं रौप्यंसौवर्णं वार्क्षमेव च॥ तन्मलापहरं शस्तं मृदु श्लक्ष्णंदशाङ्गुलम्। मुखवैरस्यदौर्गन्ध्यशोफजाड्यहरं सुखम्,॥ दन्तदार्ढ्यकरं रुच्यं स्नेहगण्डूषधारणम्। क्षीरवृक्षकषा-यैर्व्वा क्षीरेण च विमिश्रितैः॥ भिल्लोदककषायेण तथै-वामलकस्य वा। प्रक्षालयेन्मुखं नेत्रे खस्थः शीतोदकेनवा॥ निलीकां मुखशोषञ्च पिडकां व्यङ्गमेव च। रक्त-पित्तकृतान् रोगान् सद्य एव विनाशयेत्,॥ मुखं लघुनिरीक्षेत दृढं पश्यति चक्षुषा,। मतं स्रोतोऽञ्जनं श्रेष्ठंविशुद्धं सिन्धुसम्भवम्॥ दाहकण्डूमलघ्नञ्च दृष्टिक्लेदरुजा-पहम्,। अक्ष्णोरूपावहञ्चैव सहते मारुतातपौ॥ न नेत्र-रोगा जायन्ते तस्मादञ्जनमाचरेत्। भुक्तवान् शिरसास्नातः श्रान्तश्छर्दनवाहनैः॥ रात्रौ जागरितश्चापिनाञ्ज्याज्ज्वरित एव च,। कर्पूरजातिकक्कोललवङ्गकटुका-ह्वयैः॥ सचूर्णपूगैः सहितं पत्रं ताम्बूलजं शुभम्। मुखवैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम्॥ हनुदन्तस्वरमल-जिह्वेन्द्रियविशोधनम्। प्रसेकशमनं हृद्यं गलामय-विनाशनम्। पथ्यं सुप्तोत्थिते भुक्ते स्नाते वान्ते च मानवे। रक्तपित्तक्षतक्षीणतृष्णामूर्च्छापरीतिनाम्॥ रुक्षदुर्व्वलम-र्त्यानां न हितं चास्यशोषिणाम्,। शिरोगतांस्तथारोगान् शिरोऽभ्यङ्गोऽपकर्षति॥ केशानां मार्द्दवं दैर्घ्यंबहुत्वं स्निग्धकृष्णताम्। करोति शिरसस्तृप्तिंसुत्वक्क-मपि चाननम्॥ सन्तर्पणं चेन्द्रियाणां शिरसः प्रति-पूरणम्। मधूकं क्षीरशुक्ला च सरलं देवदारु च। क्षृद्रकंपञ्चनामानं समभागानि संहरेत्। तेषां कल्ककषा-याभ्यां चक्रतैलं विपाचयेत्॥ सदैव शीतलं जन्तोर्मूर्ध्नितैलं प्रदापयेत्,। केशप्रसाधनी केश्या रजोजन्तुमला-पहा,॥ हनुमन्याशिरःकर्णशूलघ्नं कर्णपूरणम्,। अभ्यङ्गोमार्द्दवकरः कफवातनिरोधनः॥ धातूनां पुष्टिजननोमृजावर्णबलप्रदः,। सेकः श्रमघ्नोऽनिलनुद्भग्नसन्धिप्रसा-धकः॥ क्षताग्निदग्धाभिहतविधृष्टानां रुजापहः। जलसिक्तस्य वर्द्धन्ते यथा मूलेऽङ्कुरास्तरोः॥ तथा धातुविवृद्धिर्हि स्नेहसिक्तस्य जायते। शिरामुखैरोमकूपैर्धम-नीभिश्च तर्पयन्॥ शरीरबलमाधत्ते युक्तः स्नेहोऽवगाहने। तत्र प्रकृतिसात्म्यर्त्तुदेशदोषविकारवित्॥ तैलं घृतं वामतिमान् युञ्ज्यादभ्यङ्गसेकयोः। केवलं सामदोषेषु न कथ-ञ्चन योजयेत्॥ तरुणज्वर्य्यजीर्णी च नाभ्यक्तव्यौ कथ-ञ्चन। तथाविरिक्तो वान्तश्च निरूढो यश्च मानवः॥ [Page0155-a+ 38] पूर्ब्बयोः कृच्छ्रता व्याध्योरसाध्यत्वमथापिवा। शेषाणांतदहः प्रोक्ता अग्निमान्द्यादयोगदाः॥ सन्तर्पणसमुत्थानांरोगाणां नैव कारयेत्,। शरीरायासजननं कर्म व्यायामसं-ज्ञितम्॥ तत् कृत्वा तु सुखं देहं विमृद्नीयात् समन्ततः। शरीरोपचयः कान्तिर्गात्राणां सुविभक्तता॥ दीप्ताग्नित्व-मनालस्यं स्थिरत्वं लाघवं मृजा। श्रमकुमपिपासोष्ण-शीतादीनां सहिष्णुता॥ आरोग्यं चापि परमं व्यायामा-दुपजायते। न चास्ति सदृशं तेन किञ्चित् स्थौल्यापक-र्षणम्॥ न च व्यायामिनं मर्त्यमर्दयन्त्यरयो भयात्। नचैन सहसाक्रम्य जरा समधिरोहति॥ स्थिरीभवतिमांसञ्च व्यायामाभिरतस्य च। व्यायामक्षुण्णगात्रस्यपद्भ्यासुद्वर्त्तितस्य च॥ व्याधयो नोपसर्पन्ति सिंहं क्षुद्र-मृगा इव। वयोरूपगुणैर्हीनमपि कुर्य्यात् सुदर्शनम्॥ व्यायाम कुर्वतो नित्यं विरुद्धमपि भोजनम्। विदग्ध-मविदग्धं वा निर्दोषं परिपच्यते॥ व्यायामो हि सदा-पथ्योबलिनां स्निग्धभोजिनाम्। स च शीते वसन्ते चतेषां पथ्यतमः स्मृतः॥ सर्व्वेष्वृतुष्वहरहः पुम्भिरात्महितै-पिभिः। बलस्यार्द्धेन कर्त्तव्यो व्यायामो हन्त्यतोऽन्यथा॥ हृदि स्थानस्थितो वायुर्यदा वक्त्रं प्रपद्यते। व्यायामंकुर्वतो जन्तोस्तद्बलार्द्धस्य लक्षणम्॥ वयोबलशरीराणिदेशकालाशनानि च। समीक्ष्य कुर्य्यात् व्यायाममन्यथारोगमाप्नुयात्॥ क्षयस्तृष्णारुचिच्छर्दिरक्तपित्तभ्रमक्लमाः। कासशोषज्वरश्वासा अतिव्यायामसम्भवाः॥ रक्तपित्तीकृशः शोषी श्वासकासक्षतातुरः। भुक्तवान् स्त्रीषु चक्षीणो भ्रमार्त्तश्च विवर्जयेत्”॥ उद्वर्त्तनं वातहरं कफ-मेदोविलापनम्। स्थिरीकरणमङ्गानां त्वक्प्रसादकरंपरम्॥ शिरामुखविविक्तत्वं त्वक्स्थस्याग्नेश्च तेजनम्। उद्धर्षणोत्सादनाभ्यां जायेयातामसंशयम्,॥ उत्सादना-द्भवेत् स्त्रीणां विशेषात् कान्तिमद्वपुः। प्रहर्षसौभाग्यमृजा-लाघवादिगुणान्वितम्,॥ उद्घर्षणन्तु विज्ञेयं कण्डूकीटा-निलापहम्। ऊर्व्वोः सञ्जनयत्याशु फेनकः स्थैर्य्यलाघवेकण्डूकीटानिलस्तम्भमलरोगापहश्च सः। तेजनं त्वग्गत-स्याग्नेः शिरामुखविरेचनम्॥ उद्धर्षणन्त्विष्टिकया कण्डू-कीटविनाशनम्। निद्रादाहश्रमहरं स्वेदकण्डूतृषा-पहम्॥ हृद्यं मलहरं श्रेष्ठं सर्वेन्द्रियविशाघनम्। तन्द्रापापोपशमनं तुष्टिदं पुंस्त्ववर्द्धनम्,॥ रक्तप्रसादनंचापि स्नानमग्नेश्च दीपनम्। उष्णेन शिरसः स्नान-महितञ्चक्षुषः सदा॥ शीतेन शिरसः स्नानं चक्षुष्यमिति[Page0155-b+ 38] निर्दिशेत्। श्लेष्ममारुतकोपे तु ज्ञात्वा व्याधिबलाबलम्॥ काममुष्णं शिरःस्नानं भैषर्ज्यार्थं समाचरेत्। अतिशीता-म्बुशीते च श्लेष्ममारुतकोपनम्॥ अत्युष्णमुष्णकाले चपित्तशोणितवर्द्धनम्। तच्चातिसारज्वरितकर्णश्लानि-लार्त्तिषु॥ आध्मानारोचकाजीर्णभुक्तवत्सु च गर्हितम्,। सौभाग्यदं वर्णकरं प्रीत्योजोबलवर्द्धनम्॥ स्वेददौर्गन्ध्य-वैवर्ण्यश्रमघ्नमनुलेपनम्। स्नानं येषां निषिद्धन्तु तेषा-मप्यनुलेपनम्। रजोघ्नमथ चौजस्यं सौभाग्यकरमुत्तम्,। सुमनोऽम्बररत्नानां धारणं प्रीतिवर्द्धनम्॥ मुखालेपाद्दढंचक्षुःपीनगण्डं तथाननम्। अव्यङ्गपिडकं कान्तं भव-त्यम्बुजसन्निभम्,॥ पक्ष्मलं विशदं कान्तममलोज्ज्वल-मण्डलम्। नेत्रमञ्जनसंयोगाद्भवेच्चामलतारकम्,। यशस्यंस्वर्ग्यमायुष्यं धनधान्यविवर्द्धनम्। देवतातिथिविप्राणांपूजनं गोत्रवर्द्धनम्,॥ आहारः प्रीणनः सद्योबलकृद्देह-धारकः। आयुस्तेजःसमुत्साहस्मृत्योजोऽग्निविवर्द्धनः,॥ पादप्रक्षालनं पादमलरोगश्रमापहम्। चक्षुःप्रसादनं वृष्यंरजोघ्नं प्रीतिवर्द्धनम्॥ निद्राकरो देहसुखश्चक्षुष्यः श्रम-सुप्तिनुत्,। पादत्वङ्मृदुकारी च पादाभ्यङ्गः सदा हितः॥ पादरोगहरं वृष्यं रजोघ्नं प्रीतिवर्द्धनम्,। सुखप्रचार-मौजस्यं सदा पादत्रधारणम्॥ अनारोग्यमनायुष्यंचक्षुषोरुपघातकृत्। पादाभ्यामनुपानद्भ्यां सदा चंक्रमणंनृणाम्,॥ पापोपशमनं केशनखरोमापमार्जनम्। हर्ष-लाघवसौभाग्यकरमुत्साहवर्द्धनम्॥ वाणवारं मृजावर्णते-जोबलविवर्द्धनम्,। पवित्रं केश्यमुष्णीषं वातातपर-जोऽपहम्॥ वर्षानिलरजोघर्महिमादीनां निवारणम्॥ वर्ण्यं चक्षुष्यमौजस्यं शङ्करं छत्रधारणम्॥ शुनः सरी-सृपव्यालविषाणिभ्यो भयापहम्,। श्रमस्खलनदोषघ्नंस्थविरे च प्रशस्यते॥ सत्वोत्साहबलस्थैर्य्यधैर्य्यवीर्य्यविवर्द्धनम्। अवष्टम्भकरञ्चापि भयघ्नं दण्डधारणम्,॥ आस्था वर्णकफस्थौल्यसौकुमार्य्यकरी सुखा,। अध्वावर्णकफस्थौल्यसौकुमार्य्यविनाशनः,। अत्यध्वा विपरीतो-ऽस्माज्जरादौर्बल्यकृच्च सः॥ यत्तु चंक्रमणं नातिदेह-पीडाकरं भवेत्,। तदायुर्बलमेघाग्निप्रदमिन्द्रियबोध-नम्॥ श्रमानिलहरं वृष्यं पुष्टिनिद्राधृतिप्रदम्। सुस्वं शय्यासनं दुःखं विपरीतगुणं मतम्,॥ व्यालव्यजन-मौजस्यं मक्षिकादीनपोहति। शोषदाहश्रमस्वेदमूर्च्छा-घ्नो व्यजनानिलः,॥ प्रोतिनिद्राकरं वृष्यं कफवात-श्रमापहम्। संवाहनं मांसरक्तत्वक्प्रसादकरं खम्,। [Page0156-a+ 38] प्रवातं रोक्ष्यवैवर्ण्यस्तम्भकृद्दाहपक्तिनुत्। स्वेदमूर्च्छा-पिपासाघ्नमप्रवातमतोऽन्यथा,॥ सुखं वातं प्रसेवेत ग्रीष्मे-शरदि मानवः। निवातं ह्यायुषे सेव्यमारोग्याय चसर्वदा,। आतपः पित्ततृष्णाग्निस्वेदमूर्च्छाभ्रमास्रकृत्,। दाहवैवर्ण्यकारी च छाया चैतानपोहति,। अग्निर्वात-कफस्तम्भशीतवेपथुनाशनः। आमाभिष्यन्दजरणो रक्त-पित्तप्रदूषणः,। पुष्टिवर्णबलोत्साहमग्निदीप्तिमतन्त्रि-ताम्। करोति धातुसाम्यञ्च निद्राकाले निषेविता,। ( तत्रादित एव नीचनखरोम्णा शुचिना शुक्लवाससा लघू-ष्णीषच्छत्रोपानत्केन दण्डपाणिना काले हितमितमधुरपू-र्ब्बाभिभाषिणा बन्धुभूतेन भूतानान्तु, गुरुवृद्धानुमतेन सुस-हायेनानन्यमनसा खलूपचरितव्यं, तदपि न रात्रौ नकेशास्थिकण्टकाश्मतुषभस्मोत्करकपालाङ्गारामेध्यस्थानब-लिभूमिषु, न विषमेन्द्रकीलचतुष्पथश्वभ्राणामुपरिष्टात्,। न राजद्विष्टपरुधपैशुन्यानृतानि वदेत् न देवब्राह्मण-पितृपरिवादांश्च। न नरेन्द्रद्विष्टोन्मत्तपतितक्षुद्रनीचाचारा-नुपासीत। वृक्षपर्वतप्रपातविषमवल्मीकदुष्टवाजिकुञ्जराद्य-धिरोहणानि परिहरेत् पूर्णनदीसमुद्राविदितपल्वलश्वभ्रकू-पावतरणानि, भिन्नशून्यागारश्मशानविजनारण्यवासा-ग्निसंभ्रमव्यालभुजङ्ग--कीटसेवाग्रामाघातकलहशस्त्रसन्निपा-ताग्निसंभ्रमव्यालसरीसृपशृङ्गिसन्निर्कषांश्च॥ नाग्निगो-गुरुब्राह्मणप्रेङ्खादम्पत्यन्तरेणाभियायात्। न शवमनु-यायात्। देवगोब्राह्मणचैत्यध्वजरोगिपतितपापकारि-णाञ्च छायां नाक्रमेत्। नास्तं गच्छन्तमुद्यन्तं वादित्यंवीक्षेत। गान्धयन्तीं परशस्यं वा चरन्तीं परस्मै न कस्मै-चिदाचक्षीत, न चोल्कापातेन्द्रधनूंषि। नाग्निं मुखेनोप-धमेत्। नापो भूमिं वा पाणिपादेनाभिहन्यात्॥ नवेगान् घारयेत्। न वहिर्वेर्गान् ग्रामनगरदेवतायतनश्मशानचतुष्पथसलिलाशयपथिसन्निकृष्टानुत्सृजन्नप्रकाशं न वाय्व-ग्निसलिलसोमार्कगोगुरुप्रतिमुखम्॥ न भूमिं विलि-खेत्। नासंवृतमुखः सदसि जृम्भोद्गारश्वासक्षवथनुत्-सृजेत्। न पर्य्यस्तिकावष्टम्भपादप्रसारणानि गुरुसन्निधौकुर्य्यात्। न बालकर्णनासास्रोतोदशनविवराण्यभिकुष्णी-यात्। न वीजयेत् केशमुखनखरवस्त्रगात्राणि। न गात्र-नखवक्त्रवादित्रं कुर्य्यात्। न काष्ठलोष्टतृणादीनभिहन्या-द्भिन्द्याद्वा। न प्रतिवातातपंसेवेत। न भुक्तमात्रोऽग्नि-मुपासीत, नोत्कटुकस्तिष्ठेत्। नाल्पकाष्ठासनमध्यासीत। न ग्रोवां विषमं षारयेत्। न विषमकायः क्रियां भजेत्[Page0156-b+ 38] भुञ्जीत वा। न प्रततमीक्षेत विशेषाज्ज्योतिर्भास्कर-सूक्ष्मचलभ्रान्तानि। न भारं शिरसा वहेत्। न स्वप्न-जागरणशयनासनचङ्कमणयानवाहनप्रधानवनलङ्घनप्लवनप्रतरणहास्यभाष्यव्यवायव्यायामादीनुचितानप्यतिसेवेत॥ उचितादप्यहितात् क्रमशो विरमेत् हितमनुचितमप्यासेवेतक्रमशो न चैकान्ततः पादहीनात्॥ नावाक्शिराः शयीत। न भिन्नपात्रे नाञ्जलिपुटेनापः पिबेत्। काले हितमित-स्निग्धमधुरप्रायमाहारं वैद्यप्रत्यवेक्षितमश्नीयात्। ग्राम-गणगणिकापणिकशत्रुशठपतितभोजनानि परिहरेत्शेषाण्यपि चानिष्टरूपरसगन्धस्पर्शशब्दमानसान्यन्यान्येवं-गुणान्यपि वा संभूय दत्तानि तान्यपि मक्षिकाबालोप-हतानि,। नाप्रक्षालितपाणिपादो भुञ्जीत मूत्रोच्चार-पीडितो न सग्ध्ययोर्नापाश्रितो नातीतकालं हीनमति-मात्रञ्चेति न भुञ्जीतोद्धृतस्नेहम्॥ नोदके पश्येदात्मानं,न नग्नः प्रविशेज्जलम्। न नक्तं दधि भुञ्जीत न वाप्यघृत-शर्करम्॥ नामुद्गयूषं नाक्षौद्रं नोष्णैर्नामलकैर्विना। अन्यथा कृष्ठवीसर्पादिं जनयेत्। द्यूतमद्यातिसेवाप्रतिभू-साक्षित्वसमाह्वानगोष्ठीवादित्राणि न सेवेत। स्रजञ्छत्रो-पानहौ कनकमतीतवासांसि न चान्यैर्धृतानि धारयेत्। ब्राह्मणमग्निं गाञ्च नोच्छिष्टः स्पृशेत्॥ भवन्ति चात्र॥ सुखमात्रं समासेन सद्वृत्तस्यैतदीरितम्। आरोग्यमायुरर्थोवा नासद्भिः प्राप्यते नृभिः॥ यस्मिन् यस्मिन्नृतौ ये येदोषाः कुप्यन्ति देहिनाम्। तेषु तेषु प्रदातव्या रसास्ते तेविजानता॥ वर्षासु न पिबेत्तोयं पिबेच्छरदि मात्रया। वर्षासु चतुरो मासान्मात्रावदुदकं पिबेत्॥ उष्णं हैमेवसन्ते च कामं ग्रीष्मे तु शीतलम्। हेमन्ते च वसन्ते चसीध्वरिष्टौ पिबेन्नरः॥ शृतशीतं पिबेत् ग्रीष्मे प्रावृट्-काले रसं पिबेत्। यूषं यर्षति तस्यान्ते प्रपिबेच्छीतलंजलम्॥ स्वस्य एवमतोऽन्यस्तु दोषाहारमतानुगः। स्नेहं सैन्धवचूर्णेन पिप्पलीभिश्च संयुतम्॥ पिबेदग्निविवृ-द्ध्यर्थं न च वेगान्विधारयेत्। अग्निदीप्तिकरं नॄणां रोगाणांशमनं प्रति॥ प्रावृट्शरद्वसन्तेषु सम्यक् स्नेहादिमाचरेत्। कफे प्रच्छर्दनं, पित्ते विरेको, वस्तिरीरणे॥ शस्यते त्रिष्वपिसदा व्यायामो दोषनाशनः। भुक्तं विरुद्धमप्यन्नं व्याया-मान्न प्रकुप्यति॥ उत्सर्गमैथुनाहारशोधने स्यात्तु तन्मनाः। नेच्छेद्रोगभयात्प्राज्ञः पीडां वा कायमानसीम्॥ अति-स्त्रीसंप्रयोगाच्च रक्षेदात्मानमात्मवान्। शूलकासज्वरश्वास-कार्श्यपाण्ड्वामयक्षयाः॥ अतिव्यवायाज्जायन्ते रोगाश्चा-[Page0157-a+ 38] क्षेपकादयः। आयुष्मन्तो मन्दजरा वपुर्वर्णबलान्विताः॥ स्थिरोपचितमांसाश्च भवन्ति स्त्रीषु संयताः। त्रिभिस्त्रिभि-रहोभिर्हि समीयात् प्रमदां नरः॥ सर्वेष्वृतुषु धर्म्मेषु पक्षा-त्पक्षाद् व्रजेत् बुधः। रजस्वलामकामाञ्च मलिनामप्रियांतथा॥ वर्णवृद्धां वयोवृद्धां तथा व्याधिप्रपीडिताम्। हीनाङ्गीं गर्भिणीं द्वेष्यां योनिदोषसगन्विताम्॥ सगोत्रांगुरुपत्नीञ्च तथा प्रवजितामपि। सग्ध्यापर्वस्वगम्याञ्चनोपेयात् प्रमदां नरः॥ गोसर्गे चार्द्धरात्रे च तथामध्य-न्दिनेषु च। लज्जासमावहे देशे विवृतेऽशुद्ध एव च॥ क्षुधितो व्याधितश्चैव क्षुब्धचित्तश्च मानवः। वातविण्मूत्र-वेगी च पिपासुरतिदुर्बलः॥ तिर्य्यग्योनावयोनौ च प्राप्त-शुक्रविधारणम्। दुष्टयोनौ विसर्गन्तु बलवानपि वर्जयेत्॥ रेतसश्चातिमात्रन्तु मूर्द्ध्वावरणमेव च। स्थितावुत्तानशयनेविशेषेणैव गर्हितम्॥ क्रीडायामपि मेधावी हितार्थीपरिवर्जयेत्। रजस्वलां प्राप्तवतो नरस्यानियतात्मनः॥ दृष्ट्यायुस्तेजसां हानिरधर्म्मश्च ततो भवेत्। लिङ्गिनीं गुरु-पत्नीञ्च सगोत्रामथ पर्वसु॥ वृद्धाञ्च सन्ध्ययोश्चापि गच्छतोजीवितक्षयः। गर्भिण्यां गर्भपीडा स्याद्व्याधितायां बल-क्षयः॥ हीनाङ्गीं मलिनां द्वेष्यां कामं बन्ध्यामसंवृते। देशेऽशुद्धे च शुक्रस्य मनसश्च क्षयो भवेत्॥ क्षुधितःक्षुब्धचित्तश्च मध्याह्ने तृषितोऽबलः। स्थितस्य हानिंशुक्रस्य वायोः कोपञ्च विन्दति॥ अतिप्रसङ्गाद्भवति शोपःशुक्रक्षयावहः। व्याधितस्य रुजा प्लीहा मृत्युर्मूच्छा चजायते। प्रत्यूषस्यर्द्धरात्रे च वातपित्ते प्रकुप्यतः॥ तिर्य्य-ग्योनावयोनौ च दुष्टयोनौ तथैव च। उपदंशस्तथा वायोःकोपः शुक्रस्य च क्षयः॥ उच्चारिते मूत्रिते च रेतसश्चविधारणे। उत्ताने च भवेच्छीघ्रं शुक्राश्मर्य्यास्तु सम्भवः॥ सर्वं परिहरेत्तस्मादेतल्लोकद्वये हितम्। शुक्रं चोपस्थितंमोहान्न सन्धार्य्यं कथञ्चन॥ वयोरूपगुणोपेतां तुल्यशीलांगुणान्विताम्। अभिकामोऽभिकामान्तु हृष्टो हृष्टामलंकृ-ताम्॥ सेवेत प्रमदां युक्त्या वाजीकरणवृंहितः। भक्ष्याःसशर्कराः क्षीरं ससितं, रस एव च॥ स्नानं सव्यजनं स्वप्नोव्यवायान्ते हितानि तु इति”। एतेषामन्यथाचरणेयथायथं दुःस्रान्युत्पद्यन्ते।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनागताबाध/ अनागता m. future trouble.
