अनाचारः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनाचारः, पुं, (न कुत्सित आचारः नञ्समासः । नञत्र अप्राशस्त्ये अभावार्थे तु आचाराभावः ।) कदाचारः । अशुद्धाचारः । श्रुतिस्मृतिविरुद्ध- कर्म्मकरणं । यथा, -- “सर्व्वदेशेष्वनाचारः पथि ताम्बूलचर्व्वणं” ॥ इति स्मृतिः ॥ तद्विशिष्टे त्रि ॥
