अनायासः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनायासः, पुं, (आ + यस् + घञ् ततो नञ्समासः ।) अक्लेशः । तस्य लक्षणं यथा । वृहस्पतिः ॥ “शरीरं पीड्यते येन सुशुभेनापि कर्म्मणा । अत्यन्तं तन्न कुर्व्वीत अनायासः स उच्यते” ॥ इत्येकादशीतत्त्वं ॥ श्रमव्यतिरेकः । यत्नाभावः । यथा, -- “अनायासेन मरणं विना दैन्येन जीवनं । अनाराधितगोविन्दचरणस्य कथं भवेत्” ॥ इति प्रामाणिकाः ॥
