सामग्री पर जाएँ

अनाहतम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनाहतम्, क्ली, (आ + हन् + क्तः नास्ति आहतं छेदो यस्य तत् ।) तन्त्रोक्तषट्चक्रान्तर्गतचतुर्थ- चक्रं । तत्तु हृदयस्थकादिठान्तवर्णयुक्तोद्यदादित्य- सन्निभद्वादशदलपद्माकारं । तन्मध्ये अयुतसूर्य्य- समप्रभशब्दब्रह्मयबाणलिङ्गमस्ति । इति तन्त्र- सारः ॥

अनाहतम्, त्रि, (आ + हन् + भावे क्तः, न सन्ति आहतानि छेदक्षालनभोगा यस्य तत् ।) नूतन- वस्त्रं । छेदक्षालनभोगरहितवस्त्रं । इत्यमरः ॥ अगुणितं । इत्यङ्कशास्त्रं ॥ अकृताघातं ॥ (अक्षतः । आघातरहितः । अक्षुब्धः । तन्त्रोक्तषट्चक्रान्त- र्गतचतुर्थचक्रं, तत् तु हृदयस्थकादिठान्तवर्ण- युक्तोद्यदादित्यसन्निभद्वादशदलपद्माकारं, तन्मध्ये अयुतसूर्य्यसमप्रभशब्दब्रह्ममयबाणलिङ्गमस्ति । “शब्दोब्रह्ममयः शब्दोऽनाहतो यत्र दृश्यते । अनाहताख्यं तत्पद्मं मुनिभिः परिकीर्त्तितं” ॥

"https://sa.wiktionary.org/w/index.php?title=अनाहतम्&oldid=111344" इत्यस्माद् प्रतिप्राप्तम्