अनिगीर्ण्ण
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनिगीर्ण्ण¦ त्रि॰ न निगीर्णः। अनपह्नुतभेदे,
“विषयस्यानि-गीर्णस्यान्यतादात्म्यप्रतीतिकृत् सारोपा स्यादिति” सा॰ द॰। (अनिगीर्णस्य) अनपह्नुतभेदस्य (विषयस्य) आरोपविषयस्यआरोप्यमाणस्य, (अन्यस्य) आरोपाश्रयस्य तादात्म्यमभेद-स्तत्प्रतीतिकृत् तद्बोधसाधनं वृत्तिः सारोपा लक्षणेतितदर्थः यथा अश्वः श्वेतो धावतीत्यादौ श्वेतगुणवानश्वोऽन-पह्नुतभेदः सन् स्वसमवेतश्वेतगुणतादात्म्येन प्रतीयते इत्य-तस्तत्र सारोपा लक्षणा।
