अनिरुद्धः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनिरुद्धः, पुं, (न निरुध्यतेऽसौ नि + रुध् + कर्म्मणि क्तः, ततो नञ्समासः ।) कामदेवपुत्त्रः । तत्- पर्य्यायः । उषापतिः २ ब्रह्मसूः ३ विश्वकेतुः ४ । इत्यमरः ॥ स तु भगवतश्चतुर्व्यूहान्तर्गतादिव्यूहः । तस्मात् सृष्टिर्भवति यथा, -- “तमसो ब्रह्मसम्भूतं तमोमूलामृतात्मकं । तद्विश्वभावसंज्ञान्तं पौरुषीं तनुमाश्रितं ॥ सोऽनिरुद्ध इति प्रोक्तस्तत् प्रधानं प्रचक्षते । तदव्यक्तमिति ज्ञेयं त्रिगुणं नृपसत्तम ॥ विद्यासहायवान् देवो विश्वक्सेनो हरिः प्रभुः । अप्स्वेव शयनञ्चक्रे निद्रायोगमुपागतः ॥ जगतश्चिन्तयन् सृष्टिं महानात्मगुणः स्मृतः” । इति महाभारते मोक्षधर्म्मः ॥
अनिरुद्धः, त्रि, (नि + रुध् + कर्म्मणि क्तः, ततो नञ्समासः ।) रोधशून्यः । अप्रतिबद्धः । चरः । इति विश्वः ॥
