अनिर्व्वाहः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनिर्व्वाहः, पुं, (निर् + वह् + भावे घञ्, ततो नञ्समासः ।) निर्व्वाहाभावः । अनिष्पत्तिः । असङ्गतिः । यथा । मुख्यार्थबाधे तद्योगे इति कारिकायां मुख्यार्थस्यान्वयबाधोऽपि तात्पर्य्य- विषयस्यान्वयस्य मुख्यार्थतावच्छेदकरूपेणानिर्व्वाह एव । इति काव्यप्रकाशटीकायां महेश्वरः ॥
