अनुकम्प्यः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनुकम्प्यः, त्रिः (अनुकम्पामर्हति अनुकम्पा + अर्हार्थे यत् । अथवा अनु + कम्प् णिच् + कर्म्मणि यत् ।) तरस्वी । वेगवान् । इति हारावली ॥ कृपायोग्यः । दयापात्रं । “अनुकम्प्योऽनुकम्प्यश्च स जातः स च जीवति” । इति काव्यप्रकाशः ॥ (“दुहितरमनुकम्प्यामद्रिरादाय दोर्भ्यां” ।) इति कुमारसम्भवे ।)
