सामग्री पर जाएँ

अनुकल्प

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनुकल्पः, पुं, (अनुकल्प्यते गौणत्वेन विधीयते, अनु + कृप् + णिच् + अच् ।) मुख्यकल्पादधमः । गौणकल्पः । मुख्यस्थानापन्नप्रतिनिधिः । यथा, “व्रीह्यभावे नीवारैर्यजेत” । इत्यमरभरतौ ॥ (“प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्त्तते । न साम्परायिकं तस्य दुर्म्मतेर्विद्यते फलं” ॥ इति मनुः ।)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनुकल्प पुं।

गौणविधिः

समानार्थक:अनुकल्प

2।7।40।1।2

मुख्यः स्यात्प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः। संस्कारपूर्वं ग्रहणं स्यादुपाकरणं श्रुतेः॥

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनुकल्प¦ पु॰ कल्प्यते विधीयते इति कृप--णिच्--अच् कल्पोविहितः हीनः कल्पो मुख्यकल्पादधमः प्रा॰ स॰। गौणकल्पे, प्रतिनिधौ।
“एष वै प्रथमः कल्पः प्रदानेहव्यकव्ययोः। अनुकल्पस्त्वयं ज्ञेय” इति।
“प्रभुः प्रथम-कल्पस्य योऽनुकल्पेन वर्त्तते” इति च मनुः
“समर्थः प्रथमेकल्पे योऽनुकल्पे प्रवर्त्तते” इति स्मृतिः।
“भार्य्याः कार्य्याःसजातीयाः सर्वेषां श्रेयस्यःस्युरितिमुख्यः कल्पस्ततोऽनुक-ल्पस्तु चतस्रोब्राह्मणस्येत्यादि” पैठीनसि स्मृतिः। अनुकल्पश्चमुख्यद्रव्यद्याभावे सुसदृशदव्यान्तरादि प्रतिनिधिरूपम्। यथा
“यवाद्यभावे गोधूमाः मध्वाद्यभावे गुडादयः। एवंउपवासासामर्थ्ये नक्तं
“हविष्यान्नादि स्मृतिषूक्तं वेदितव्यम्। अनुगतं कल्पं वेदाङ्गभेदम् अत्या॰ स॰। कल्पानुगते ग्रन्थेअनुकल्पप्रतिपादकग्रन्थे च तद्वेत्तरि उक्थादि॰ ठक्॥ आनु-कल्पिकः अनुकल्पग्रन्थवेत्तरि त्रि॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनुकल्प¦ m. (-ल्पः)
1. An alternative, a substitute.
2. A secondary, subsi- diary or succedaneous injunction; as, instead Ku4sa4 grass use Durba. E. अनु after and कल्प a principal precept.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनुकल्पः [anukalpḥ], An alternative, a second alternative, a make-shift, अभावे हि श्रुतस्य अनुकम्पः प्रतिनिधिः । ŚB. on MS.6.3.35.

अनुकल्पः [anukalpḥ], [अनुगतः मुख्यं कल्पम्]

A secondary direction or precept, a substitute or alternative to be used in times of necessity when the primary one (प्रथमकल्प) is not possible; as the direction to use गोधूम or तण्डुल in the absence of यव; प्रभुः प्रथमकल्पस्य यो$नुकल्पेन वर्तते Ms. 11.3,3.147.

A work connected with Kalpa (one of the six auxiliaries of the Vedas).

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनुकल्प/ अनु-कल्प See. अनु-कॢप्.

अनुकल्प/ अनु-कल्प m. permission to adopt an alternative or substitute( e.g. instead of कुशgrass you may use Durba) Mn. etc.

"https://sa.wiktionary.org/w/index.php?title=अनुकल्प&oldid=486015" इत्यस्माद् प्रतिप्राप्तम्