सामग्री पर जाएँ

अनुकूलः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनुकूलः, त्रि, (अनुकूलं करोति, अनुकूल + करो- त्यर्थे णिच् पचाद्यच् ।) अप्रतिकूलः । दक्षिणः । सहायः । यथा, “मयानुकूलेन नभस्वतेरितं” । इति श्रीभागवतं ॥

अनुकूलः, पुं, (अनुकूलयति केवलस्वपत्नीं सुखयति, अनुकूल + करोत्यर्थे णिच् अच् ।) पतिभेदः । तस्य लक्षणं । “सदा पराङ्गनापराङ्मुखत्वे सति स्वस्त्र्यनुरक्तत्वं” । इति रसमञ्जरी ॥ (यथा साहित्यदर्पणे, -- “एकस्यामेव नायिकायामासक्तोऽनुकूलनायकः । किन्त्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतो दृष्टिं निक्षिपतीति विश्वमियता मन्या- महे दुःस्थितं” ।)

"https://sa.wiktionary.org/w/index.php?title=अनुकूलः&oldid=111448" इत्यस्माद् प्रतिप्राप्तम्