अनुक्रमः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनुक्रमः, पुं, (क्रममनुगतः, प्रादिसमासः ।) यथा- क्रमं । तत्पर्य्यायः । आनुपूर्ब्बी २ परिपाटी ३ आवृत् ४ पर्य्यायः ५ । इत्यमरः ॥ प्रतिसंक्रमणं । अनुक्रमणिका । यथा, -- “द्वादशे तु पुराणोक्तसर्व्वार्थानुक्रमः कृतः । प्रथमस्कन्धमारभ्य प्राधान्येन समासतः” ॥ इति श्रीभागवते १२ स्कन्धे १२ अध्यायटीकायां श्रीधरस्वामी ॥ (“कनिंष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च । प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात्” इति याज्ञवल्क्यः ।)
