अनुगमनम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनुगमनम्, क्ली, (अनु साहित्येन गमनं, अनु + गम् + भावे ल्युट् ।) सहगमनं । यथा, “अष्टौ लोक- पाला आदित्यचन्द्रानिलाग्न्याकाशभूमिजलहृद- यावस्थितान्तर्यामिपुरुषयमदिनरात्रिसन्ध्याधर्म्माः ! यूयं साक्षिणो भवत ज्वलच्चितारोहणेन भर्तृ- शरीरानुगमनमहं करोमि” । इति शुद्धितत्त्वं ॥
