अनुद्रुतम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनुद्रुतम्, क्ली, (अनु + द्रु + क्तः ।) तालविशेषः । स तु द्रुतार्द्धो मात्राचतुर्थभागो वा । यथा, -- “अर्द्धमात्रं द्रुतं ज्ञेयं द्रुतार्द्धञ्चाप्यनुद्रुतं” । इति शब्दरत्नावली ॥ अनुधाविते त्रि । यथा, -- “अनुद्रुतः संयति येन केवलं बलस्य शत्रुः प्रशशंस शीघ्रतां” । इति माघः ॥
