सामग्री पर जाएँ

अनुपसंहारिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनुपसंहारिन्¦ पु॰ न्यायमते परिभाषिते दुष्टहेतुविशेषे। सच अन्वये व्यतिरेके च दृष्टान्तरहितत्वेन दुष्टोहेतुः। यथा सर्वमनित्यं प्रमेयत्वादित्यनुमाने सर्वस्यापि पक्षत्वेनअन्वये दृष्टान्तो नास्ति नापि व्यतिरेके दृष्टान्तः, सर्वस्यापिप्रमेयतया तदभावस्य कुत्राप्यसिद्धेः।
“तथैवानुपसंहारीकेवलान्वयिपक्षक” इति।
“आद्यः साधारणस्तु स्याद-न्योऽसाधारणो मतः। तथैवानुपसंहारी त्रिधा नैकान्तिकोमत” इति च भाषा॰ मुक्तावल्यान्तु सर्वमभिधेयं प्रमेयत्वा-दित्यादिकं तदुदाहरणत्वेनोपन्यस्तं
“केवलान्वयिपक्षकइत्यस्य च केवलान्वयिसाध्यक इत्येतत् परतया व्याख्यातञ्च। यथा
“केवलान्वयिधर्म्मावच्छिन्नपक्षक इत्यर्थः। सर्बमभिधेयंप्रमेयत्वादित्यादौ सर्व्वस्यैव पक्षत्वात् सामान्याधिकरण्य-ग्रहस्थलान्तराभावान्नानुमितिः इदन्तु न सम्यक्। पक्षैक-देशे घटसहचाराग्रहेऽपि क्षतेरभावात् अस्तु वा सह-चारग्रहस्तावतापि पक्षे अज्ञानरूपासिद्धिरेव न तु-हेत्वाभासत्वं तस्य, तथापि केवलान्वयिसाध्यकत्वं तत्त्वमि-त्युक्तम्। उपसंहाराकारके त्रि॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनुपसंहारिन् [anupasaṃhārin], m. A kind of हेत्वाभास or fallacy in Nyāya, a subdivision of the अनैकान्तिकहेत्वाभास; वस्तुमात्र- पक्षको$नुपसंहारी that is, that which includes every known thing in the पक्ष and thus prevents the corroboration of a general rule of causation by illustrations, positive or negative; as सर्वं नित्यं प्रमेयत्वात्; अत्र सर्वस्यैव पक्षत्वात् प्रमेयत्वं हेतुरनुपसंहारी अन्वये व्यतिरेके वा दृष्टान्ताभावात्.

"https://sa.wiktionary.org/w/index.php?title=अनुपसंहारिन्&oldid=199747" इत्यस्माद् प्रतिप्राप्तम्