अनुपातः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनुपातः, पुं, (अनु + पत् + भावे घञ्, अनुरूपः त्रैराशिकेन पातः । पाटिगणितोक्तेन त्रैराशिकेन युक्तः संख्यापातः ।) पश्चात्पतनं । पूर्ब्बाङ्कपातानु- सारेण अपराङ्कपातः । यथा, -- “पुरान्तरं चेदिदमुत्तरं स्यात् तदक्षविश्लेषलवैस्तदा किं । चक्रांशकैरित्यनुपातयुक्त्या युक्तं निरुक्तं परिधेः प्रमाणं” ॥ इति सिद्धान्तशिरोमणौ गोलाध्यायः ॥
