सामग्री पर जाएँ

अनुपातक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनुपातकम्, क्ली, (पातयति निरयं प्रेरयति, पत् + णिच् + ण्वुल् । पातकं ब्रह्महत्यादि तत्सदृशं प्रादिसमासः । वेदनिन्दादिजन्यपापविशेषः । तानि च विष्णुना दर्शितानि, यथा, -- “यागस्थस्य क्षत्त्रियस्य वैश्यस्य च रजस्वलायाश्चान्तर्व्वत्न्याश्चा- त्रिगोत्रायाश्चाविज्ञातस्य गर्भस्य शरणागतस्य च घातनं ब्रह्महत्यासमानमिति” ।) महापातक- सदृशपापविशेषः । तत् पञ्चत्रिंशत्प्रकारं, यथा, -- समुत्कर्षे मिथ्यावचनं १ तत् द्विविधं । आत्मगामि । असूयापूर्ब्बकपरगामि च । राजगामि पैशुन्यं १ पितुर्मिथ्यादोषकथनं १ एतत्त्रयं ब्रह्महत्यासमं ॥ ३ वेदत्यागः । स तु अधीतवेदविस्मरणं । १ वेदनिन्दा १ कौटसाक्ष्यं १ तद्द्विविधं । ज्ञातस्याकथनं । मिथ्याकथनञ्च । सुहृद्बधः १ स तु ब्राह्मणव्यतिरिक्तमित्रबधः । ज्ञानपूर्ब्बकाभ्यासेन गर्हितान्नस्य अर्थात् अन्त्य- जान्नस्य भक्षणं १ ज्ञानपूर्ब्बकाभ्यासेन गर्हिताद्यस्य अर्थात् छत्रा- कादेर्भक्षणं १ एतत् षड्विधं सुरापानसमं ॥ ६ निक्षेपहरणं १ नरहरणं १ अश्वहरणं १ रजतहरणं १ भूमिहरणं १ हीरकहरणं १ मणिहरणं १ एतानि सप्त स्वर्णस्तेयसमानि ॥ ७ सपीण्डस्त्रीगमनं १ कुमारीगमनं १ अन्त्यजागमनं १ सख्युः स्त्रीगमनं १ औरसेतरपुत्त्रस्त्रीगमनं १ पुत्त्रस्यासवर्णस्त्रीगमनं १ एतानि षट् विमातृगमनसमानि ॥ ६ मातृष्वसृगमनं १ पितृष्वसृगमनं १ श्वश्रूगमनं मातुलानीगमनं शिष्यस्त्रीगमनं भगिनीगमन १ आचार्य्यभार्य्यागमनं १ शरणागतागमनं १ राज्ञीगमनं १ प्रव्रजितागमनं १ धात्रीगमनं १ साध्वीगमनं १ वर्णोत्तमागमनं १ एतानि त्रयोदश गुर्व्वङ्गना- गमनसमानि ॥ १३ इति प्रायश्चित्तविवेकसङ्ग्रहः ॥ ३५

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनुपातक¦ न॰ अनुपातयति नरकं गमयति पत--णिच्-ण्वुल् पातकं ब्रह्महत्यादि तत्सदृशम् प्रा॰ स॰। ब्रह्म-हत्यादिमहापातकसदृशे वेदनिन्दादिजन्ये पापविशेषेतानि च पञ्चत्रिंशत्प्रकारहेतूद्भवत्वेन तावत्संख्या-तानि अनुरत्र सादृश्ये तेन पतनहेतुमहापातकतुल्यत्वा-दस्य अनुपातकत्वमिति प्रा॰ वि॰। तानि च विष्णुनादर्शितानि यथा
“यागस्थस्य क्षत्त्रियस्य वैश्यस्य च,[Page0177-b+ 38] रजस्वलायाश्चार्न्तर्व्वत्न्याश्चात्रिगोत्रायाश्चाविज्ञातस्य गर्भस्यशरणागतस्य च घातनं ब्रह्महत्यसमानीति, कौटसाक्ष्यंसुहृद्बध एतौ सुरापानसमौ। ब्राह्मणस्य भूम्यपहरणंनिक्षेपापहरणं सुवर्णस्तेयसमम्। पितृव्यमातामहमातुल-श्वशुरनृपपत्न्यभिगमनं गुरुदारगमनसमम्। पितृष्वसृ-मातृष्वसृस्वसृगमनञ्च श्रोत्रियर्त्विगुपाध्यायमित्रपत्न्यभि-गमनञ्च स्वसुः सख्याः सगोत्राया उत्तमवर्णायाः कुमार्य्याअन्त्यजाया रजस्वलायाः शरणागतायाः प्रव्रजितायानिक्षिप्तायाश्च॥ अनुपातकिनस्त्वेते महापातकिनो यथाअश्वमेधेन शुद्ध्यन्ति तीर्थानुसर्णेन वा इति”॥ नरकाण्यभि-धाय
“एतेष्वकृतप्रायश्चित्ता अतिपातकिनः पर्थायेण कल्पंपच्यन्ते, मन्वन्तरं तु महापातकिनः, अनुपातकिनश्च, उप-पातकिनश्चतुर्युगमिति विष्णु॰ स॰। तथा च महापातकसदृशान्येतानि पातकानि। अन्यान्यपि मनुना संक्षिप्यदर्शितानि यथा
“अनृतञ्च समुत्कर्षे राजगामि च पैशु-नम्। गुरोश्चालीकनिर्ब्बन्धः समानि ब्रह्महत्यया॥ ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्बधः। गर्हिता-नाद्ययोर्जग्धिः सुरापानसमानि षट्॥ निक्षेपस्यापहरणंनराश्वरजतस्य च। भूमिवज्रमणीनाञ्च रुक्मस्तेयसमंस्मृतम्॥ रेतःसेकः खयोनीषु कुमारीष्वन्त्यजासु च। सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुरिति”॥

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनुपातक¦ n. (-कं) A heinous crime, as, falsehood, fraud, theft, adul- tery, &c. अनु, and पातक crime.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनुपातकम् [anupātakam], [पातकं ब्रह्महत्यादि तत्सदृशम्] A heinous crime such as theft, murder, adultery &c. 35 such sins are enumerated in Viṣṇusmṛiti; Manu mentions 3 kinds; See 11.54-58.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अनुपातक/ अनु-पातक n. a crime similar to a महापातकSee. (falsehood , fraud , theft , adultery , etc. )

"https://sa.wiktionary.org/w/index.php?title=अनुपातक&oldid=486182" इत्यस्माद् प्रतिप्राप्तम्