अनुपूर्ब्ब
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनुपूर्ब्ब¦ त्रि॰ अनुगतं पूर्ब्बं परिपाटीं गतिस॰। यथाक्रमप्राप्तेयथाहान्यनुपूर्ब्बं भवति ऋ॰
१० ,
१८ ,
५
“यथावदनुपूर्व्वश” इति वर्ण्णानामनुपूर्ब्बश” इति च मनुः। अनुपूर्ब्ब +शस्। अनुपूर्बशः।
“वृत्तानुपूर्ब्बे च न चातिदीर्घे” इति कुमा॰
“ततोऽनुपूर्ब्बायतवृत्तबाहुरिति” भारविःपूर्व्वमनुगतौ गीपुच्छाकाराविति मल्लि॰ अनुगतः पूर्ब्बम्। पश्चाद्गामिनि त्रि॰। आग्नेयः प्रथमो गच्छत्यन्वारब्धो-[Page0178-a+ 38] ऽनुपूर्ब्बा इतरे, कात्या॰
८ ,
८ ,
२९
“इतरे दश पशवःअनन्वारव्धा एव अनुपूर्ब्बाः अनुगामिनो भवेयुरिति” व्या॰निकृष्टप्रमाणे च
“अनुपूर्ब्बाइतरे” कात्या॰
८ ,
८ ,
२० ,
“अनुपूर्ब्बांः निकृष्टा ह्यनुगच्छन्ति अत्र च प्रमाणेननिकृष्टत्वम्। अतश्च दक्षिणस्य वर्सिष्ठत्वमुक्तं तत उत्तरस्यतदपेक्षया हीनप्रमाणत्वं तदपेक्षया तत उत्तरस्य, तदपे-क्षया तदुत्तरस्येत्येवमेकादशो यूपः सर्वतो निकृष्टो यथाभवति तथा कर्त्तव्यमिति” व्याख्या। अनुपूर्ब्ब + भावादौष्यञ्। आनुपूर्ब्यं तद्भावे षित्त्वात् चातुरीवत् वा स्त्री
“साजत्यञ्च समानानुपूर्ब्बीकत्वेनेति” जग॰। वेदे पृ॰पूर्ब्बपदह्रस्वः। अनुपूर्ब्बी आनुपूर्ब्ब्ये स्त्रो।
“वर्षिष्ठ-रशनः पुरुषोऽनुपूर्ब्ब्या इतरेषामिति” कात्या॰
१६ ,
१ ,
९ ,
“अनुपूर्ब्या द्विव्यामया रशनया” इति व्याख्या।
