अनुप्रासः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनुप्रासः, पुं, (रसाद्यनुगतत्वेन प्रकर्षेण वर्णानामासः न्यासः, अनु + प्र + अस् + घञ् ।) तुल्यवर्ण- विन्यासः । यथा, -- “वर्णसाम्यमनुप्रासः” इति काव्यप्रकाशः ॥ “वर्णावृत्तिरनुप्रासः पदे पादे विधीयते” । इति काव्यचन्द्रिका । अस्य विवरणं अलङ्कार- शब्दे द्रष्टव्यम् ॥ (“वर्णसाम्यरूपः शब्दालङ्कार- विशेषः, अत्र वर्णानामेव सादृश्यं ज्ञेयं, स्वर- मात्रेऽपि सादृश्यं वैचित्र्याभावात् न गणितं । स तु पञ्चविधः, छेकानुप्रासो वृत्त्यनुप्रासः श्रुत्यनु- प्रासोऽन्त्यानुप्रासो लाटानुप्रासश्चेति । अनुप्रासः शब्दसाम्यं वैषग्येऽपि स्वरस्य यत्” । इति सा- हित्यदर्पणे ।)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनुप्रासः¦ पु॰ अनुगतः रसाद्यनुगुणं प्रकृष्टमासं वर्णन्यासंसमवर्णरचनां समवर्णोच्चारणं वा गतस॰। अलङ्कार-प्रसिद्धे स्वरवैषम्येऽपि समवर्ण्णानां तुल्यरचनारूपे
“अनु-प्रासः शब्दसाम्यं वैषस्येऽपि स्वरस्य यत् (सा॰ द॰) उक्तेशब्दालङ्कारभेदे। स च पञ्चधा ते च सोदाहरणमुक्तादर्पणे यथा
“छेको व्यञ्जनसङ्घस्य सकृत् साग्यमनेकधा”। छेकश्छेकानुप्रासः। अनेकधेति स्वरूपतः क्रमतश्च। रसःसर इत्यादिक्रमभेदेन सादृश्यं नास्यालङ्कारस्य विषयः। यथा
“आदाय वकुलगन्धानन्धीकुर्व्वन् पदे पदे भ्रम-रान्। अयमेति मन्दमन्दं कावेरीवारिपावनः पवनः”॥ अत्र गन्धानन्धीति संयुक्तयोः, कावेरीवारीत्यसंयुक्तयोः। पावनः पवन इति बहूनां व्यञ्जनानां सकृदावृत्तिः। छेको विदग्धः तत्प्रयोज्यत्वादेष छेकानुप्रासः।
“अने-कस्यैकधा साम्यमसकृद्वाप्यनेकधा। एकस्य सकृदप्येषवृत्त्र्यनुप्रास उच्यते”॥ एकधा स्वरूपत एव न तुक्रमतोऽपि। अनेकधा स्वरूपतः क्रमतश्च। सकृदपीत्यपि-शब्दादसकृदपि। यथा
“उन्मीलन्मुधगन्धलुब्धमधुपव्या-धूतचूताङ्कुरक्रीडत्कोकिलकाकलीकलकलैरुद्गोर्णकर्णज्वराः। नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षणप्राप्त-प्राणसमासमागमरसोल्लासैरमी वासराः”। अत्र रसो-ल्लासैरमी इति रसयोरेकधैव साग्यम्। न तु तेनैव क्रमे-णापि। द्वितीये पादे तु कलयोरसकृत् तेनैव क्रमेणच। प्रथमे एकस्य तकारस्य सकृत्। रसविषयव्यापारवतीवर्णरचना वृत्तिस्तदनुगतत्वेन प्रकर्षेण व्यसनाद्धत्त्यनुप्रासः।
“उच्चार्य्यत्वाद्यदैकत्र स्थाने तालुरदादिके। सादृश्यं व्यञ्जन-स्यैव श्रुत्यनुप्रास उच्यते”॥ यथा
“दृशा दग्धं मनसिजंजीवयन्ति दृशैव याः। विरूपाक्षस्य जयिनीस्ताः स्तुमोवामलोचनाः”॥ अत्र
“जीवयन्तीति”
“या इति”
“जयिनीरिति” अत्र जकारयकारयोरेकत्र स्थाने तालौउच्चार्य्यत्वात् सादृश्यम्। एव दन्त्यकण्ठ्यानानप्युदाहार्य्यम्। एष च सहृदयानामतीव श्रुतिसुखावहत्वाच्छ्रुत्यनुप्रासः।
“व्यञ्जनं चेद्यथावस्थं सहाद्येन स्वरेण तु। आवर्त्त्यतेऽन्त्य-[Page0179-a+ 38] योज्यत्वादन्त्यानुप्रास एव तत्”॥
“यथावस्थमिति” यथासम्भवमनुस्वारविसर्गस्वरसंयुक्ताक्षरविशिष्टम्। एष चप्रायेण पादस्य पदस्य चान्ते प्रयोज्यः। पादान्तगो यथा
“केशः काशस्तवकविकासः कायः प्रकटितकरभविलासः। चक्षुर्दग्धवराटककल्पं त्यजति न चेतः काममनल्पम्”॥ पदान्तगो यथा।
“मन्दं हसन्तः पुलकं वहन्त इत्यादि।
“शब्दार्थयोः पौनरुक्त्यं भेदे तात्पर्य्यमात्रतः। लाटानुप्रासइत्युक्तोऽनुप्रासः पञ्चधा ततः” इति। यथा
“स्मेर-राजीवनयने! नयने किं निमीलिते?। पश्य निर्जित-कन्दर्पं कन्दर्पवशगं प्रियम्॥ अत्र विभक्त्यर्थस्यापौनरुक्त्येऽपिमुख्यतरस्य प्रातिपदिकांशद्यीत्यधर्म्मिरूपस्याभिन्नार्थत्वाल्ला-टानुप्रासत्वमेव।
“नयने तस्यैव नयने” अत्र द्वितीयनयनशब्दो भाग्यवत्तादिगुणविशिष्टत्वरूपतात्पर्य्यमात्रेणभिन्नार्थः। यथा वा।
“यस्य न सविधे दयिता दवदहन-स्तुहिनदीधितिस्तस्य। यस्य च सविधे दयिता दवदहन-स्तुहिनदीधितिस्तस्य”॥ अत्रानेकपदानां पौनरुक्यम्। एष च प्रायेण लाटजनप्रियत्वाल्लाटानुप्रास” इति।
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनुप्रासः [anuprāsḥ], [अनुगतः रसाद्यनुगुणं प्रकृष्टमासं वर्णन्यासं समवर्ण- रचनां समवर्णोच्चारणं वा] Alliteration, repetition of similar letters, syllables or sounds; वर्णसाम्यमनुप्रासः K. P.9; (स्वरवैसादृश्ये$पि व्यञ्जनसदृशत्वं वर्णसाम्यं ससाद्यानुगतः प्रकृष्टो न्यासः; अनुप्रासः शब्दसाम्यं वैषम्ये$पि स्वरस्य यत् S. D.633.) अनुप्रास is of 5 kinds; (a) छेक˚ or single alliteration; बकुलगन्धा- नन्धीकुर्वन्, कावेरीवारिपावनः पवनः, मूर्ध्नामुद्वृत्तकृत्ताविरलगरल &c. K. P.7. (b) वृत्ति˚ or harmonious. उदा°ree उन्मीलन्मधुगन्ध- लुब्धमधुपव्याधूतचूताङ्कुरक्रीडत्कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः । नीयन्ते पथिकैः कथंकथमपि ध्यानावधानक्षणप्राप्तप्राणसमासमागमरसोल्ला- सैरमी वासराः ॥ (c) श्रुति˚ or melodious. उदा˚ दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुमो वामलोचनाः ॥ (d) अन्त्य˚ or final; as मन्दं हसन्तः पुलकं वहन्तः. (e) लाट˚; स्मेरराजीवनयने नयने किं निमीलिते । पश्य निर्जीतकन्दर्पे कन्दर्पवशगं प्रियम् ॥ For definitions and examples see S. D. 633-38 and K. P.9th Ullāsa.
